Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअभय० वृत्तियुतम् | // 275 // सूत्रम् 156-159 व्याख्या कारण सिसङ्ग्रामयिषोर्महासैन्यस्य तां रणरङ्गरसिकतया महाबलतया च विघटयन्ति- वियोजयन्ति ये ते महारचनाविघटकाः, पाठान्तरेण तु महारणविघटकाः, अर्द्धभरतस्वामिनः सौम्या नीरुजा राजकुलवंशतिलकाः अजिताः अजितरथाः, हलमुशलकणकपाणयः तत्र हलमुशले प्रतीते ते प्रहरणतया पाणौ- हस्ते येषां ते बलदेवाः येषां तु कणका- बाणाः पाणौ ते शार्ङ्गधन्वानो वासुदेवाः, शङ्खश्च पाञ्चजन्याभिधान: चक्रं च सुदर्शननामकं गदा च कौमोदकीसंज्ञा लकुटविशेषः शक्तिश्च त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खड्गस्तान् धारयन्तीति शङ्खचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरो वरप्रभावयोगादुज्ज्वलः शुक्लत्वात् स्वच्छतया वा शुक्लान्तः वा सुकान्त: कान्तियोगात् पाठान्तरे सुकृतः-सुपरिकर्मित्वात् विमलो मलवर्जितत्वात् गोत्थुभ त्ति- कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति- किरीटं च मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतिताननाः पुण्डरीकवन्नयने येषां ते तथा, एकावली- आभरणविशेषःसा कण्ठे ग्रीवायां लगिता-विलम्बिता सती वक्षसि- उरसि वर्त्तते येषां ते एकावलीकण्ठलगितवक्षसः, श्रीवृक्षाभिधानं सुष्ठु लाञ्छनं महापुरुषत्वसूचकं वक्षसि , येषां ते श्रीवृक्षलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात् सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनि यानि कुसुमानि तैः सुरचिता- कृता या प्रलम्बा आप्रपदीना सोभंत त्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रा-पञ्चवर्णा वरा- प्रधाना माला-सकचिता-निहिता रतिदावा-सुखकारिका वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैः प्रशस्तानि- मङ्गल्यानि सुन्दराणि च- मनोहराणि विरचितानि-विहितानि अंगमंग त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः, तथा मत्तगजवरेन्द्रस्य यो ललितो- मनोहरो विक्रमः-संच //

Page Navigation
1 ... 293 294 295 296 297 298 299 300