Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 278 // सूत्रम् 156-159 व्याख्या देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश, इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायते एतदिति, एवं चक्रवर्तिवंश इति च दशारवंश इति च गणधरवंश इति च गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य समस्तस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यतिमुनिशब्दयोः ऋषिपर्यायत्वात्, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया त्रैकालिकार्थावबोधनसहत्वादस्य, तथा श्रुताङ्गमिति वा श्रुतस्य- प्रवचनस्य पुरुषरूपस्याङ्ग- अवयव इतिकृत्वा, तथा श्रुतसमास इति वा समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् श्रुतस्कन्ध इति वा श्रुतांशसमुदायरूपत्वादस्य समाए इ व त्ति समवाय इति वा, समस्तानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः, तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति वाख्यायते, तथा समस्तं- परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादाविवाङ्गतेति भावः, तथा अज्झयणंति त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञादिष्विवेति भावः, इतिशब्दः समाप्तौ बेमि त्ति किल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमिप्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्पर्यमर्थस्य प्रतिपादितं भवति, एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति,आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतम्,अयमेवार्थः शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् // // 278 //

Page Navigation
1 ... 296 297 298 299 300