Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 294
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 274 // सूत्रम् 156 159 व्याख्या तेषां गुणा- महर्द्धिप्राप्त्यादयस्तैरुप अपइता शकन्ध्वादिदर्शनादुपपेता- युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं?, उदकपूर्णायां द्रोण्यां निविष्टे पुरुष यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टोत्तरशतमङ्गलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण- अन्यूनंसुजातमा गर्भाधानात् पालनविधिना सर्वाङ्गसुन्दरं-निखिलावयवप्रधानं अङ्गं शरीरं येषां ते तथा, शशिवत् सौम्याकारमरौद्रमबीभत्सं वा कान्तं- दीप्रं प्रियजनप्रेमोत्पादकं रूपं येषां ते तथा, अमसण त्ति अमसृणा:- प्रयोजनेष्वनलसाः अमर्षणा वा-अपराधिष्वकृतक्षमाः प्रकाण्डउत्कटो दण्डप्रकार- आज्ञाविशेषो नीतिभेदविशेषो वा येषां ते तथा, अथवा प्रचण्डो- दुःसाध्यसाधकत्वाद्दण्डप्रचारःसैन्यविचरणं येषां ते तथा, गम्भीरा- अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजा बलदेवा उद्विद्धःउच्छ्रितो गरुडलक्षितः केतुः- ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवा: तालध्वजाश्च उद्विद्धगरुडकेतवश्च तालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षका: महाप्राणत्वात् महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः दुर्द्धरा रणाङ्गणे तेषां प्रहरतां केनापि धन्विना धरयितुमशक्यत्वात्, धनुर्धराः- कोदण्डप्रहरणाः, धीरेष्वेव ते पुरुषा:- पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भवा इति प्रतीतम्, महारत्नं- वज्रं तस्य महाप्राणतया विघटका- अङ्गुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या आरचना सागरशकटव्यूहादिना // 274 //

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300