Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 235
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 215 // सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिकः नादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं चतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषा:समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणां भवनपतिव्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा आख्यायन्त इति क्रिया, तथा पर्षदांच 'संजयवेमाणित्थी संजइ पुव्वेण पविसिउंवीर' मित्यादिनोक्तस्वरूपाणांप्रादुर्भावाश्च-आगमनानि, क्व?- जिणसमीवं ति जिनसमीपे यथा च येन प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा / च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानाम्, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषां ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के?- नराः, किं?- यथा अभ्युपयन्ति धर्ममुदारम्, किंस्वरूपमत आह- संयम तपश्चापि, किम्भूतमित्याह- बहुविधप्रकारम्, तथा यथा बहूनि वर्षाणि अणुचरित्त त्ति अनुचर्य आसेव्य संयमंतपश्चेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिणवयणमणुगयमहियभासिय त्ति जिनवचनं-आचारादि। अनुगतं-सम्बद्धं नाईवितर्दमित्यर्थः महितं- पूजितमधिकंवा भाषितं यैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्याआनुकूल्येन सुष्ठ भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा जिणवराण हियएणमणुणेत्त त्ति इह षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन- मनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तम ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायते इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं तत्थ त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायत इति योगः, तत्तो य त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा ] चान्तक्रियां तथाऽऽख्यायते अनुत्तरोपपातिकदशास्विति प्रकृतम्, एते चान्ये चेत्यादि पूर्ववत्, नवरं दस अज्झयणा तिन्नि वग्ग // 215 //

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300