Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 258 // सूत्रम् 154 आयुबंन्धादि पदर्शनार्थम्, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्माद्याख्याप्रज्ञप्त्यामुक्तं- नेरइए णं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ?, गोयमा! नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ (भगवती 4/9-173) एतदुक्तं भवति- नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा गतिनामनिधत्ताउए त्ति गति रकगत्यादिः तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा ठिइनामनिधत्ताउएत्ति स्थितिर्यत् स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नामःपरिणामो धर्म इत्यर्थः स्थितिनाम(मः), गतिजात्यादिकर्मणां वा प्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम, तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा पएसनामनिधत्ताउए त्ति प्रदेशानां- प्रमितपरिमाणानामायुःकर्मदलिकानां नाम:- परिणामो यः, तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम जातिगत्यवगाहनाकर्मणां वा यत्प्रदेशरूपं नामकर्म तत्प्रदेशनाम, तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा अणुभागनामनिधत्ताउए त्ति अनुभाग:- आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः- परिणामोऽनुभागनामः, अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनामः, तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति, तथा ओगाहणानामनिधत्ताउए त्ति अवगाहते जीवो यस्यां साऽवगाहना-शरीरमौदारिकादि पञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकविगाहनानाम, तेन सह निधत्तमायुरवगाहनानामनिधत्तायुरिति // नेरइयाणमित्यादि स्पष्टम् / अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषांनारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- निरयगईणमित्यादि कण्ठ्यम्, नवरं यद्यपिरत्नप्रभादिषु चतुर्विंशतिमुहूर्तादिविरहकालो, यथोक्तंचउवीसई मुहत्ता सत्त अहोरत्त तह य पण्णरस / मासो य दो य चउरो छम्मासा विरहकालो उ॥१॥ (बृहत्सं० 281) त्ति तथापि // 258 //

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300