Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 276
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 256 // वेदनालेश्या हन्त गौतम!, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यम्, नवरं देवानांपूर्वं विकुर्वणा पश्चात्परिचारणा शेषाणांतु सूत्रम् 153 शरीरावधिपूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवमेव प्रश्नः, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति, एवमाहारपयं भाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणद्भिः प्रज्ञापनाया ऽऽहारसूत्रम् श्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति, इदं चात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र आहाराभोगणाइय त्ति एतस्य विवरणं- नारकाणां किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वर्तितो वा?, उभयथापीति निर्वचनम्, एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा पोग्गला नेव जाणंति त्ति अस्यार्थः- नारका यान् पुद्गलान् आहारयन्ति तानवधिनापि न जानन्ति अविषयत्वात्तदवधेस्तेषाम्, न पश्यन्ति चक्षुषाऽपि लोमाहारत्वात् तेषाम्, एवमसुरादयस्त्रीन्द्रियान्ताः, केवलं एकेन्द्रिया अनाभोगाहारत्वावित्रीन्द्रियाश्च मत्यज्ञानित्वान्न जानन्ति चक्षुरिन्द्रियाभावाची न पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुःसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषा तु पश्यन्ति, तथा त एव लोमाहारमाश्रित्य न जानन्ति न पश्यन्तीति व्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्ति पश्यन्ति चावधिज्ञानादियुक्ताः लोमाहारं प्रक्षेपाहारं च, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति, व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्तेजानन्ति विशिष्टावधित्वात् पश्यन्ति च, चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्टयस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञानयोस्तेषामस्पष्टत्वादिति, (r) चक्षुषा न पश्यन्ति (प्र०)।

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300