Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सूत्रम् 155 संहननादिः श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 261 // पन्नत्ता, तेऊ सूइकलावसंठाणा पन्नत्ता, वाऊ पडागासंठाणा पन्नत्ता, वणस्सई नाणासंठाणसंठिया पन्नत्ता, बेइंदियतेइंदियचउरिंदियसमुच्छिमपंचेंदियतिरिक्खा हुंडसंठाणा प०, गब्भवक्वंतिया छव्विहसंठाणा संमुच्छिममणुस्सा हुंडसंठाणसंठिया पन्नत्ता, गब्भवक्वंतियाणं मणुस्साणं छव्विहा संठाणा पन्नत्ता, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणियावि।सूत्रम् 155 // कइविहे ण मित्यादि,दण्डकत्रयं कण्ठ्यम्, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचं ऋषभस्तु पट्टः वज्र कीलिका, वजं च ऋषभश्च नाराचं च यत्रास्ति तद्वज्रर्षभनाराचसंहननम्, मर्कटपट्टकीलिकारचनायुक्तः प्रथमोऽस्थिबन्धः मर्कट(क)कीलीकाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः मध्ये कीलिकैव अङ्गलीद्वयस्य दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवार्तम्, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं-प्राप्तं सेवार्त्तमिति षष्ठम्, छण्हं संघयणाणं असंघयणे त्ति उक्तरूपाणां षण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनः- अस्थिसञ्चयरहिताः,अत एवाह- नेवठ्ठी नैवास्थीनि तच्छरीरके नेव छिर त्ति नैव। शिरा-धमन्यः णेव ण्हारु त्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हि प्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिबाधिता इति,न चास्थिसञ्चयाभावे शरीरं नोपपद्यते, स्कन्धवत्तदुपपतेः, अत एवाह- जे पोग्गले त्यादि, ये पुद्गला अनिष्टा:- अवल्लभाः सदैवैषां सामान्येन तथा अकान्ता- अकमनीयाः सदैव तद्भावेन तथा अप्रिया- द्वेष्याः सर्वेषामेव तथाऽशुभाः- प्रकृत्यसुन्दरतया तथा अमनोज्ञा- अमनोरमाः कथयापि तथा अमनआपा:-न मन:प्रियाश्चिन्तयापि ते एवंभूताः पुद्गलास्तेषां- नारकाणां असंघयणत्ताए त्ति अस्थिसञ्चयविशेषरहितशरीरतया परिणमन्ति, कइविहे णं भंते! संठाणे 0 मर्कटपट्टाभ्यां (मु०)। 6 अङ्गुलीद्वयसंयुक्तस्य मध्यकीलिकैव (मु०)। 0 नोपपीडयते (मु०)10 अमन:आपा (मु०)। // 261 //

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300