Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 271
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 251 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् गोयमा! गब्भवक्वंतियमणुस्साहारगसरीरेनो समुच्छिममणुस्साहारगसरीरे,जड़ गब्भवक्वंतियः' इत्यादि सर्वमूह्यं यावत् 'जह पमत्तसंजयसम्मद्दिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगब्भवक्वंतियमणुस्साहारगसरीरे किं इड्डिपत्तपमत्तसंजयसम्मदिट्ठिपज्जतयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे अणिविपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे?, गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह- वयणा वि भणियव्वा त्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणि भणनीयानि, विभागेन पूर्णान्युच्चारणीयानीत्यर्थः, आहार त्ति आहारग-8 सरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता?, गोयमा!' इत्येतत् सूचितम्, जहण्णेणं देसूणा रयणी ति कथं?, उच्यते, तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात् न हीहौदारिकादेरिवाङ्गलासंख्येयभागमात्रता प्रारम्भकाले इति भावः। तेयासरीरेणं भंते इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थत:- एगिदियतेयगसरीरे णं भंते! कतिविहे पण्णते?, गोयमा! पंचविहे पण्णत्ते, तंजहा- पुढवी जाव वणस्सइकाइयएगिदियतेयगसरीरे(प्रज्ञा०सू०१५३६-३७), एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयम्, यावत् सव्वट्ठ-8 सिद्धगअणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेंदियतेयगसरीरे णं भंते! किंसंठिए?, नाणासंठाणसंठिए (प्रज्ञा०सू० 1544) यस्य पृथिव्यादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना?,शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तु जघन्येनाङ्गलस्यासंख्येयभाग उत्कर्षत ऊर्द्ध-08 मधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियादीनां द्वीन्द्रियादीनां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यग्लोके द्वीन्द्रियादितिरश्चांभावात्, नारकस्य जघन्यतो योजनसहस्रम्,

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300