Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 269
________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् | // 249 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् बादरसूक्ष्मपर्याप्तापर्याप्तानां जघन्यत उत्कृष्टतश्चाङ्गलासंख्येयभागो, वनस्पतीनां बादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहस्रम्, शेषाणां त्वङ्गलासंख्येयभाग एव, द्वित्रिचतुरिन्द्रियाणां पर्याप्तानामुत्कर्षतोऽनुक्रमेण द्वादश योजनानि त्रीणि गव्यूतानि चत्वारि चेति, पञ्चेन्द्रियतिरश्चां जलचराणां पर्याप्तानां गर्भजानां संमूर्च्छनजानां चोत्कर्षतो योजनसहस्रम्, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यूतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि उरःपरिसाणां गर्भव्युत्क्रान्तिकानां योजनसहस्रं एषामेव सम्मूर्च्छनजानांयोजनपृथक्त्वं भुजपरिसर्पाणांगर्भजानांगव्यूतपृथक्त्वंसम्मूर्छन-R जानां धनुःपृथक्त्वं खचराणां गर्भजानां सम्मूर्च्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भव्युत्क्रान्तिकानां गव्यूतत्रयं सम्मूर्छनजानामङ्गलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदे चेति, तथा कइविहे ण मित्यादि स्पष्टम, नवरं विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनां एवं जावे त्यादेरतिदेशादिदं द्रष्टव्यम्, यदुत 'जड़ एगिदियवेउव्वियसरीरए किंवाउक्काइयएगिंदियवेउव्वियसरीरए अवाउक्काइयएगिदियवेउव्वियसरीरए?, गोयमा! वाउक्काइयएगिदियसरीरए नो अवाउक्काइय' इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः किं सूक्ष्मस्य बादरस्य वा?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्यापर्याप्तकस्य वा?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारकस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा?,गौतम! सर्वेषाम्, तत्र नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूर्छिमस्य इतरस्य वा?, इतरस्य, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्य, तस्य च जलचरादिभेदेन त्रिविधस्यापि, तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्यैव च तथा देवस्य भवनवास्यादेः, तत्रासुरादेर्दशविधस्य /

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300