Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सत्रम 149 श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 235 // प्रज्ञापना यतंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभाओ नरएसुवेयणाओ।सूत्रम् 149 // दुवे रासी त्यादि, इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यम्, किमवसानमित्याह- जाव से किं त मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह दुवे रासी पण्णता इत्यभिलापः, तत्र तु दुविहा पण्णवणा पण्णत्ताजीवपण्णवण्णा य अजीवपण्णवणा य'त्ति, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदर्श्यते-तत्राजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशस्तत्प्रदेशाश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपिवाच्यावेवं नव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्द्धा-स्कन्धा देशाः प्रदेशाः परमाणवश्चेति, तेच वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति / जीवराशिर्द्विविधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा इति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथिवीभेदात्, पञ्चेन्द्रियतिर्यश्चस्त्रिधा- जलस्थलखचरभेदात्, तत्र जलचराः पञ्चविधा मत्स्यकच्छपग्राहमकरसुंसुमारभेदात्, पुनर्मत्स्या अनेकधा-शूक्ष्णमत्स्यादिभेदात्, कच्छपा द्वेधा अस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्पुलकसीमाकारभेदात् मकरा- मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, 0 मकरा द्विधा- शुण्डामकरा मष्टकराश्च (दंष्ट्रामकराश्च प्र०) (प्र०)। // 235 //

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300