Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 246 // सूत्रम् 151 नारकादिस्थितिः नेरइयाणं भंते! इत्यादि सुगमम्, नवरं स्थितिः- नारकादिपर्यायेण जीवानामवस्थानकाल: अपज्जत्तयाणं ति नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्तं यावदपर्याप्तका भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौघिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः- नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ। एते उ अपज्जत्ता उववाए चेव बोद्धव्वा॥१॥सेसा / यतिरियमणुया लद्धिं पप्पोववायकाले य। दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं ॥२॥ति, उक्ता सामान्यतो नारकस्थितिविशेषतस्तामभिधातुमिदमाह- इमीसे ण मित्यादि, स्थितिप्रकरणं च सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्याप्तकलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ताल एवमिहापि वाच्या, कियहरं यावदित्याह- जाव विजये त्यादि, अनुत्तरसुराणामौघिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त! कियती स्थितिः?, गौतम! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं 1, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त! कियन्तं कालं स्थितिः प्रज्ञप्ता?, गौतम! उभयथापि अन्तर्मुहूर्त्तम् 2 // एवं पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तांना वाच्या 3 / एवं शेषपृथिवीनारकाणां प्रत्येक दशानामसुरादीनां पृथिवीकायिकादीनां तिरश्चांगजेतरभेदानांमनुष्याणांव्यन्तराणामष्टविधानांज्योतिष्काणांपञ्चप्रकाराणां सौधर्मादीनां वैमानिकानां च गमत्रयं वाच्यम्, कियद्रं यावदित्याह- जाव विजये त्यादि, इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदम्, पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति // 151 // अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानी // 246 //

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300