Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ राशि प्रज्ञापना // 236 // श्रीसमवायाङ्गस्थलचरा द्विधा- चतुष्पदपरिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्द्धा- एकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते श्रीअभय० अश्वगोहस्तिसिंहादयः, परिसा द्विधा- उरःपरिसर्पभुजपरिसर्पभेदात्, उर:परिसाश्चतुर्की- अहिअजगराशालिकामहोरगवृत्तियुतम् भेदात्, तत्राहयो द्विधा- दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा- चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणच, तत्राद्यौ द्वौवल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेवस्तः, सर्वे च पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाच, तत्र संमूर्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यास्त्रिधा-कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, कर्मभूमिजा द्विविधाः- आर्या म्लेच्छाश्च, आर्या द्वेधा- ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः- क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, देवाश्चतुर्विधाः भवनवास्यादिभेदाद्भवनपतयो दशधा असुरनागादयः, व्यन्तरा अष्टविधा पिशाचादयः, ज्योतिष्काः पञ्चधा चन्द्रादयः, वैमानिका द्वेधा- कल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा- ग्रैवेयका अनुत्तरोपपातिकाच, ग्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं जाव से किं तं अणुत्तरे त्यादि, पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह- दुविहे त्यादि सुगमम्, नवरं 'दण्डओ'त्ति नेरइया 1 असुराई 10 पुढवाई 5 बिंदियादओ 4 मणुया 1 / वंतर 1 जोइस 1 वेमाणिया य 1 अह दंडओ एवं ॥१॥अथानन्तरप्रज्ञापितानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह- इमीसे ण मित्यादि, अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यम्, नवरं ते णं निरया इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यतेकिल द्विविधा नरका भवन्ति आवलिकाप्रविष्टा आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च 0 अष्टधा (प्र०)। 8 // 236 //

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300