Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 233 // सूत्रम् 148 द्वादशाङ्गम् विराधनाऽऽराधना सूत्रम् 149 राशिप्रज्ञापना वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराहिः समुद्रवत् अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह-से जहा नामए इत्यादि, तद्यथा नाम पञ्चास्तिकाया- धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, एवामेवे त्यादि दान्तिकयोजना निगदसिद्धैवेति / एत्थ ण मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावाजीवादयः पदार्थाः,एते च जीवपुद्गलानन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि- जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्ये तु धर्मापेक्षया अनन्ता भावा अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात्, तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिवर्त्तकानि, तथा अनन्तान्यकारणानि / सर्वकारणानामेव कार्यान्तराकारणत्वात्, नहि मृत्पिण्डः पटं निवर्त्तयतीति, तथा अनन्ता जीवाः- प्राणिनः एवमजीवाःव्यणुकादय:भवसिद्धिका- भव्या, इतरे त्वभव्याः, सिद्धा- निष्ठितार्था इतरे- संसारिणः, आघविजंती त्यादि पूर्ववदिति // १४८॥द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमभिधित्सुराह दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य, से किंतं अरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, रूवीअजीवरासी

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300