________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 233 // सूत्रम् 148 द्वादशाङ्गम् विराधनाऽऽराधना सूत्रम् 149 राशिप्रज्ञापना वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराहिः समुद्रवत् अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह-से जहा नामए इत्यादि, तद्यथा नाम पञ्चास्तिकाया- धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, एवामेवे त्यादि दान्तिकयोजना निगदसिद्धैवेति / एत्थ ण मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावाजीवादयः पदार्थाः,एते च जीवपुद्गलानन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि- जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्ये तु धर्मापेक्षया अनन्ता भावा अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात्, तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिवर्त्तकानि, तथा अनन्तान्यकारणानि / सर्वकारणानामेव कार्यान्तराकारणत्वात्, नहि मृत्पिण्डः पटं निवर्त्तयतीति, तथा अनन्ता जीवाः- प्राणिनः एवमजीवाःव्यणुकादय:भवसिद्धिका- भव्या, इतरे त्वभव्याः, सिद्धा- निष्ठितार्था इतरे- संसारिणः, आघविजंती त्यादि पूर्ववदिति // १४८॥द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमभिधित्सुराह दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य, से किंतं अरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, रूवीअजीवरासी