________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 232 // सूत्रम् 148 द्वादशाङ्गम् विराधनाऽऽराधना गणिपिडगं इति ॥सूत्रम् 148 // इच्चेय मित्यादि, इत्येतद्द्वादशाङ्गं गणिपिटकमतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं अणुपरियटिंसु त्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधम्, ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथापाठादिलक्षणया ? अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणयागोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, इच्चेय मित्यादि गतार्थमेव, नवरं परीत्ता जीवा इति संख्येया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् अणुपरियटृति त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः, इचेय मित्यादि इदमपि भावितार्थमेव, नवरं अणुपरियट्टिस्संति अनुपरावर्त्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेय मित्यादि कण्ठ्यम्, नवरं विइवइंसु त्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेष:वीवयंति त्ति व्यतिव्रजन्ति-व्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवम्, नवरं वीइस्संति त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिष्टेतरभेदभिन्नं फलं प्रतिपादितमेतत्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह-दुवालसंगे इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि?, भुवि चे त्यादि अभूच्च भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पश्चास्तिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु कालवचनवत् शाश्वतत्वादेव // 232 //