Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सूत्रम् 145 द्वादशाङ्गम् श्रीसमवाया श्रीअभय० वृत्तियुतम् // 218 // व्याकरण: यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासाम्, पुनः किंभूतानांप्रश्नानां?- सद्भूतेन तात्त्विकेन / द्विगुणेन उपलक्षणात्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमते:मनुजसमुदयबुद्धेर्विस्मयकर्यः- चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकर्यस्तासाम्, पुन: किंभूतानां तासां?- अतिसयमतीतकालसमये त्ति अतिशयेन योऽतीतः कालसमयः स तथा तत्र, अतिव्यवहित काले इत्यर्थः, दमःशमस्तत्प्रधानः तीर्थकराणां- दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्- जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं स्थापनम्, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्त : सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेष: एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपम्, तस्य प्रतिष्ठापनस्य कारणानि- हेतवो यास्तास्तथा तासाम्, पुनस्ता एव विशिनष्टिदुरभिगम-दुरवबोधंगम्भीरसूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानांसम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं प्रवचनतत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः पञ्चक्खयपच्चयकराणं ति प्रत्यक्षकेण- ज्ञानेन साक्षादित्यर्थो यः प्रत्ययः- सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्तिःअथवा प्रत्यक्षेणेवानेनार्थाःप्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षताप्रत्ययस्तत्करणशीला:- प्रत्यक्षकप्रत्ययकर्यः प्रत्यक्षताप्रत्ययको वा तासां प्रत्यक्षकप्रत्ययकरीणां प्रत्यक्षताप्रत्ययकरीणांवा, कासामित्याह- प्रश्नानां- प्रश्नविद्यानां उपलक्षणत्वादन्यासांच यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा- बहुविधप्रभावास्ते च ते महार्थाश्च- महान्तोऽभिधेयाः- पदार्थाःशुभाशुभसूचनादयो विविधगुणमहार्थाः, 0 प्रत्यक्षेणैव (प्र०)। 0 प्रत्यक्षमित्येवं प्रतीतिः प्रत्यक्षताप्रत्य० (प्र०)/ प्रत्यक्षकप्रत्ययः (मु०)। // 218 //

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300