Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ BA श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् // 229 // सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्वं रचितं पश्चादाचारादि, नन्वेवं यदाचारनियुक्त्यामभिहितं सव्वेसिं आयारो पढमो (आचा० नि० 8) इत्यादि तत्कथम्? उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनां प्रतीत्य भणितं पूर्वं पूर्वाणि कृतानीति, तच्च पूर्वगतं चतुर्दशविधं प्रज्ञप्तम्, तद्यथा- उप्पाये त्यादि, तत्रोत्पादपूर्वं प्रथमम्, तत्र चसर्वद्रव्याणांपर्यवाणांचोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्रेणीयं द्वितीयम्, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चा-परिमाणंवर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणंषण्णवतिः पदशतसहस्राणि, वीरियं तिवीर्यप्रवादंतृतीयम्, तत्राप्यजीवानां जीवानां च सकर्मेतराणां वीर्य प्रोच्यत इति वीर्यप्रवादम्, तस्यापि सप्ततिः पदशतसहस्राणि परिमाणम्, अस्तिनास्तिप्रवाद चतुर्थम्, यद्यल्लोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितम्, तदपि पदपरिमाणतः षष्टिः पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमम्, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता तस्मात् ज्ञानप्रवादम्, तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनंवा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादम्, तस्य पदपरिमाणं एका पदकोटी षट् च पदानीति, आत्मप्रवादं सप्तमम्, आय त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादम्, तस्य पदपरिमाणं षड्विंशतिः पदकोट्यः, कर्मप्रवादमष्टमंड ज्ञानावरणादिकमष्टविधं कर्म प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवाईतत्परिमाणमेका पदकोटी अशीतिश्चसहस्राणीति, प्रत्याख्यानं नवमम्, तत्र सर्व प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादम्, तत्परिमाणं चतुरशीतिः पदशतसहस्राणि भवन्तीति, विद्यानुप्रवादं दशमम्, तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसहस्राणीति, अवन्ध्यमेकादशम्, वन्ध्यं नाम निष्फलम्, नवन्ध्यमवन्ध्यं सफलमित्यर्थः तत्र हि सर्वे ज्ञानतपः

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300