Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 232
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 212 // सूत्रम् 143 द्वादशाङ्गम् अन्तकृद्दशा अन्तकृतास्ते च तीर्थकरादयस्तेषां दशा:- प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृतदशाः, तथा चाह- अंतगडदसासु ण मित्यादि कण्ठ्यम्, नवरं नगरादीनि चतुर्दश पदानि षष्ठाङ्गवर्णकाभिहितान्येव, तथा पडिमाओ त्ति द्वादश भिक्षुप्रतिमा छ मासिक्यादयो बहुविधाः, तथा क्षमा आर्जवं मार्दवं च शौचं च सत्यसहितम्, तत्र शौचं- परद्रव्यापहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमं च ब्रह्म- मैथुनविरतिरूपं आकिंचणिय त्ति आकिञ्चन्यं तपस्त्याग इति आगमोक्तं दानं समितयो / गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोर्द्वयोरपिलक्षणानि-स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं सज्झाएण पसत्थं झाण मित्यादि, ध्यानलक्षणं यथा- अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमी (ध्यानश० गा० 3) त्यादि, आख्यायन्त इति सर्वत्र योगः, तथा प्राप्तानां च संयमोत्तम-सर्वविरतिं जितपरीषहाणां चतुर्विधकर्मक्षये-घातिक्षये सति यथा केवलस्य ज्ञानादेलाभः पर्यायः-प्रव्रज्यालक्षणो यार्वांश्च-यावद्वर्षादिप्रमाणो यथा येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्चपादपोपगमाभिधानमनशनं प्रतिपन्नो यो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि-भोजनानि छेदयित्वा, अनशनिनां हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरोजात इति शेषः, तमोरजओघविप्रमुक्तः, एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्ये चेत्यादि प्राग्वत्, नवरं दस अज्झयण त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते सत्त वग्ग त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात्, तद्वृत्तिश्चेयं अट्ठ वग्ग त्ति अत्र वर्ग:समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि / चैकवर्गगतानि युगपदुद्दिश्यन्ते, अतो भणितं अट्ठ उद्देसणकाला (नन्दी० हारी०)इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति / O क्षमा मार्दवं आर्जवं च (मु०)। (c) कर्मक्षये सति- धातिकर्मक्षये (मु०)। 0 मुक्ताः (प्र०)। // 212 //

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300