Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 181
________________ शिवभद्रकृत "गुर्वन्ताष्टमगणभागार्या पूर्वार्धसदृशशकलद्वितया [जयदेवच्छन्दः ४-१४] इति एतल्लक्षणम् । चेदिशब्दात् "वृद्वेत्कोसला जादाभ्य' [पा. ४. १. १६९.*] । अहन् इति हतेः लङ् । अमुचत् इति मुचेः लुङ् । लुङि चाद् अ ॥१॥ मुरगणसाध्यमहा यः कालिन्दीहदमुपेत्य साध्वसहायः । घोरं नागमदन्तं ममर्द यस्येश्वरोऽपि नागमदन्तम् ॥२॥ शां० । सुर० यश्च हरि. नागं सर्प कालियाख्यं ममर्द चूर्णितवान् । कीदृशम् ! घोरं गैद्रम् । किं कुर्वन्नम् ! अदन्तं भक्षयन्तम् । अथवा नागमदं कालियसर्पदर्ष ममर्द । किं कृत्वा ? उपेत्य गत्वा । कथं साधु शोभनम् । कम् ? कालिन्दाहदम् । यमुनाशोणम् । कीदृशः हरिः ? असहायः एकाकी। तथा सुरगणसाध्वसहा यः देववृन्दभयहन्ता असुरविनाशित्वात् । यस्य नागस्य नागमदस्य वा ईश्वरोऽपि गरुडोऽपि पक्षीश्वरत्वात न अगमत् न गतः । कम् ? अन्तं विनाशम् । यद् वा यस्य हरेः ईश्वरः अपि अन्तम् पर्यन्तम् न भगमत् न प्राप्तवान् ॥२॥ पु० । यः कृष्णः घोरं भयंकरं नागं भुजङ्ग कालियाख्यं साधु सम्यक् ममर्द चुक्षोद । किं कुर्वन्तम् अदन्तं खादन्तम् । यमुनाइदं प्राप्य । किंभूतः ? असहाय एकाकी। तथा सुरगणस्य देवसंघस्य साध्वसं भयं हन्ति इति सुरगणसाध्वसहा । कि च यस्य कृष्णस्य अन्तम् ईश्वरः अपि शंभुः अपि न अगमत् न प्रापत् । बाणयुद्धे यं जेतुं न शक्तः इत्यर्थः । यस्य अन्तं पार शिवः अपि न अगमत् न अज्ञासीद इति वा ॥२॥ अभृत यः सुरतरुज सेयं दयितामनोरथं सुरतरुजम् । यश्च परां भोजानां ख्याति चक्रे शशी पराम्भोजानाम् ॥३॥ शां० । अभृत० यश्च अभृत पूरितवान् । कम् ? दयितामनोरथं सत्या, भि(त्यभा)माप्रियाभिलाषम् । कीदृशम् ? सुरतरुजं पारिजातद्रुमपुष्पप्रभवम् । तथा *In numbering the sūti as, I have followed the Aştādhy āyi-sūtrapātha of Niruaya sāgara Press, Bombay 1954). १. लुखि च ॥ १० २. ४. ४३ ॥ इत्यस्मात् सूत्राद् अङ् । २. म० "कालियसर्पदवम् । ३ सुर+त+ज अथवा सुरत+रुजम् । ४. म० भरितवान् ।

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417