Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 293
________________ शिवभद्रकृतम् तम् । केन ! मदविभ्रमेण मदविलासेन । कीदृशी च ? अन्या श्रीः इव अपरा लक्ष्मीः इव । किंभूता श्रीः रहितामलपद्मा त्यक्तोज्ज्वलकमला । कोशी सा ? मान्या पूज्या अग्रमहिषीत्वात् ॥७९॥ पु०॥ अथ पुरा व्याकुला अनन्तरं सा प्रसिद्धा तारानाम्नी प्रिया सबाप्पं यथा स्यात् एवं दयितं प्रियं सुग्रीवम् अलपत् अभाषत । कीदृश दयितम् ? रणसाहसे दक्ष रणरूपे साहसे दक्षं चतुरम् । भयानपेक्षं कर्म साहसम् । तथा मदविभ्रमेण सुरापानजनितमदविलासेन अहसदक्षं विकलम् । कादशी तारा ! रहितामलपमा त्यक्तसितकमला अन्या श्रीः इव अपरा लक्ष्मीः इव । मान्या मानिनी या अलपद् मान्या इति अत्र अनुनासिकाभावे पक्षे जश्त्वमेव ॥७९॥ निधिरिव यो धैर्यस्य क्रियते न प्रार्थनाऽपि याधैर्यस्य । सौमित्रिमवध्यन्तं रुपितं नावैषि अमुं च किमबध्यन्तम् ॥८॥ शां ० ॥ निधि ० ॥ तं सौमित्रिं लक्ष्मणम् । न अवैषि न जानासि । किंभूतम् ? रुपितं कुपितम् । तथा अवध्यं अविनाशं(श्यं) तथा अवध्यन्तं च मर्यादाऽवसानम् । किं न अवैपि । लक्ष्मणो निधिः इव निधानमिव । कस्य ? धैर्यस्य सत्त्वस्य । तथा यस्य प्रार्थना अपि याच्या अपि युद्धाय' योधैः भटैः' न क्रियते न विधीयते ॥८॥ पु० ॥ तं सौमित्रि न अवैपि न जानासि । कीदृशं तम् ? अवध्यन्तं प्राप्तं त्वत्कृतमर्यादान्तेन समागतमित्यर्थः । कीदृशम् ? उज्झितं त्वया उपेक्षितमथवा सौमित्रिं नावैषि स्वापेक्षितं मर्यादात्वं च नावै षि इति योजनीयम् । कीदृशं तम् ? यः धैर्यस्य धीरत्वस्य निधिः इव । यस्य च प्रार्थनापि न क्रियते । प्रार्थना युयुत्सा अभिध्यानं वा । यथावत्प्रार्थनः जातु न वा आजिगतेन इति प्रार्थना अपि न क्रियते किम् इति युद्धमिति अपिशब्दार्थः यतः अवध्यं हन्तुमशक्यम् इति अर्थः ॥८॥ वहति न रोमाञ्चेतः कायो मुष्णाति स हि नरो मां चेतः। तदरिविनाशः क्रमते स्थातुं तदनुनयं विना शक्रमते ! ॥८॥ १. म० 'यज्ञय' मस्ति । २. म. नास्ति । ३. म० किमरिविनाशः पाठः स्वीकृतः ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417