________________
शिवभद्रकृतम् तम् । केन ! मदविभ्रमेण मदविलासेन । कीदृशी च ? अन्या श्रीः इव अपरा लक्ष्मीः इव । किंभूता श्रीः रहितामलपद्मा त्यक्तोज्ज्वलकमला । कोशी सा ? मान्या पूज्या अग्रमहिषीत्वात् ॥७९॥
पु०॥ अथ पुरा व्याकुला अनन्तरं सा प्रसिद्धा तारानाम्नी प्रिया सबाप्पं यथा स्यात् एवं दयितं प्रियं सुग्रीवम् अलपत् अभाषत । कीदृश दयितम् ? रणसाहसे दक्ष रणरूपे साहसे दक्षं चतुरम् । भयानपेक्षं कर्म साहसम् । तथा मदविभ्रमेण सुरापानजनितमदविलासेन अहसदक्षं विकलम् । कादशी तारा ! रहितामलपमा त्यक्तसितकमला अन्या श्रीः इव अपरा लक्ष्मीः इव । मान्या मानिनी या अलपद् मान्या इति अत्र अनुनासिकाभावे पक्षे जश्त्वमेव ॥७९॥
निधिरिव यो धैर्यस्य क्रियते न प्रार्थनाऽपि याधैर्यस्य ।
सौमित्रिमवध्यन्तं रुपितं नावैषि अमुं च किमबध्यन्तम् ॥८॥
शां ० ॥ निधि ० ॥ तं सौमित्रिं लक्ष्मणम् । न अवैषि न जानासि । किंभूतम् ? रुपितं कुपितम् । तथा अवध्यं अविनाशं(श्यं) तथा अवध्यन्तं च मर्यादाऽवसानम् । किं न अवैपि । लक्ष्मणो निधिः इव निधानमिव । कस्य ? धैर्यस्य सत्त्वस्य । तथा यस्य प्रार्थना अपि याच्या अपि युद्धाय' योधैः भटैः' न क्रियते न विधीयते ॥८॥
पु० ॥ तं सौमित्रि न अवैपि न जानासि । कीदृशं तम् ? अवध्यन्तं प्राप्तं त्वत्कृतमर्यादान्तेन समागतमित्यर्थः । कीदृशम् ? उज्झितं त्वया उपेक्षितमथवा सौमित्रिं नावैषि स्वापेक्षितं मर्यादात्वं च नावै षि इति योजनीयम् । कीदृशं तम् ? यः धैर्यस्य धीरत्वस्य निधिः इव । यस्य च प्रार्थनापि न क्रियते । प्रार्थना युयुत्सा अभिध्यानं वा । यथावत्प्रार्थनः जातु न वा आजिगतेन इति प्रार्थना अपि न क्रियते किम् इति युद्धमिति अपिशब्दार्थः यतः अवध्यं हन्तुमशक्यम् इति अर्थः ॥८॥
वहति न रोमाञ्चेतः कायो मुष्णाति स हि नरो मां चेतः।
तदरिविनाशः क्रमते स्थातुं तदनुनयं विना शक्रमते ! ॥८॥ १. म० 'यज्ञय' मस्ति । २. म. नास्ति । ३. म० किमरिविनाशः पाठः स्वीकृतः ।