________________
शिवभद्रकाव्यम् पडजदलकान्तेषु कमलपत्रवत् रमणोयेषु तथा प्रवृद्धः यः बाष्पः अश्रजलं तेन आर्दा विगलन्तः अत एव तज्जला अलकान्ताः येषु तेपु] नागरिकेति "नगरात् कुत्सन-प्रावीण्ययोः” (पा. ४-२-१२८) इति प्रावीण्ये वुञ् ॥७७||
हपितकुचसमुद्तया रोम्णां राज्या च भीवशसमुद्गतया ।
करमितमध्यासितया शुशुभेऽन्या त्रिवलिभङ्गमध्यासितया ॥७७॥
शां०॥ हृपि०। अन्या अपरा स्त्री । शुशुभे बभौ । कया हृपितकुचसमुद्गतया रोमाञ्चितस्तनवर्तुलतया । तथा रोम्णां राज्या च पङ्क्त्या । कीदृश्या ? भीवशसमुदगतया भयहेतुसमुत्थितया । तथा आसितया आ ईषत् शुक्लतया । असितया वा कृष्णया । तथा त्रिवलिभङ्गमध्यासितया वलित्रयभङ्गमध्यारूढतया। कीदृशी ? अन्या करमितमध्या हस्तपरिच्छिन्नमध्यमा ॥७८॥
पु०॥ अन्या काचित् शुशुभे रराज । कया ? हृषितकुचसमुद्गतया हृषितः रोमाञ्चितः कुचसमुद्गः स्तनमण्डलं यस्याः सा हृषितकुचसमुद्गा तस्याः भावः "त्वैतलोर्गुणस्य" इति पुंवद्भावः सामान्यविवक्षया नपुंसकाङ्गात् तल प्रत्ययः । न केवलं तया रोम्णां राज्या च कीदृश्या ? भीवशतः भयवशात् समुदतया प्रादुर्भूतया यद् वा असितया कृष्णया तथा त्रिवलिभङ्ग-वलित्रयविच्छेदम् अध्यासितया अधिष्टितवत्या । कीदृशी स्त्रो? करमितमध्या मुष्टिसंमितमध्यभागा इत्यर्थः । त्रिवलिभङ्ग मिति “अधिशीथासां कर्म" (पा. १.४. ४६) इति कर्मत्वात् द्वितीया ।।७८॥
अथ रणसाहसदक्षं दयित मदविभ्रमेण सा हसदक्षम् ।
रहितामेलपद्माऽन्या श्रीरिव तारा संबाष्पमलपद् मान्या ॥७९॥ शां० ॥ अथ० ॥ अथ अनन्तरम् । सा तारा सुग्रीवभार्या । दयितं प्रियं अलपत् उक्तवती । कथम् ? सबाष्पं साश्रु । कीदृशम् ! रणसाइसदक्षं संग्रामादभुतकर्मपटुम् । तथा हसदक्ष हसन्ती वा अक्षिणी नेत्रे यस्य स तथोक्तः
१. म० रोमाञ्चितस्तनवर्तुलायाः' २. त्वतलोगुणवचनस्य" Varttika on ६३॥३५॥ ३. साहसदक्षम् । ४. सा हसदक्षम् अथवा सा अहसदक्षम् । ५. मलपमाऽन्या । ६. सपापम् अलपद् मान्या ।