________________
शिवभद्रकाव्यम् शां० वह ॥ तस्मात् किं क्रमते'युज्यते । किं कर्तुम् ! स्थानम् । आसितुम् । कः असौ ? अरिविनाशः शत्रुवधः । कथम् । विना अन्तरण । किम् ? तदनुनयं लक्ष्मणानुग्रहम् । हे शक्रमने ! इन्द्रतुल्यमते ! शकतुल्यबु ! सुग्रीवः हि यस्मात् न वहति न चेप्टतेत्रकः। अमौ ? कायः शरीरम् । कीदृशः ? रोमाञ्चेतः रोमोद्गतः । तथा इतः अस्मात् म्धानात मां मुष्णाति । अपहरति । कः असौ ? सः नरः स लक्ष्मणः ।। ८१॥
पु०॥ हे शक्रमते ! शतमखप्रज्ञ ! इन्द्रतुल्यप्रज्ञ ! अभिविनाश ! शत्रुधानक ! तदनुज्ञया विना लक्ष्मणस्य अनुज्ञया विना विनाशः स्थान क्रमते । हि यस्मात् कारणात् सः नरः नरनारायणयोगात यः मां च इत: मुष्णाति मदीयं चित्तमपहरति । मुपेः द्विकर्मकत्वात् मामिति कर्मणि द्वितीया । चित्तस्य मुषितत्वात् कायः शरीरं चेतः न वहति न धाग्यति । कीदृशः कायः ! रोमाञ्चेन भयजपुलकेन इतः प्राप्तः । अरीन् विनाशयति इति अरिविनाशः कर्मणि अण्। क्रमते इति अप्रतिबन्धने आत्मनेपदम् ॥८१॥
इत्याप्तसतीव्रतया हितमुक्तः कारणस्य च स तीव्रतया ।
आस समन्त्रस्तान्तां प्रियां विहाय मधुना समं त्रस्तां ताम् ॥८२॥
शां०॥ इत्या० ॥ 2 सुग्रीवः आस बभूव । कीदृशः समन्त्रः मन्त्रवान् । किंभूतः सन् ?7" उक्तः भणितः सन् । कया ! तया तारया। कीदृश्या !
आप्तसतीव्रतया प्राप्तसतीसावीत्रतया । किमुक्तः हितं पथ्यम् । किंभूतामिति पूर्वोक्तम् । कया ? हेतुभूतया उक्तः तीव्रतया अमन्दत्वेन । कस्य ! कारणस्य हेतोः । चकारः समुच्चयार्थः किं कृत्वा ! समन्त्र आम विहाय त्यक्त्वा । काम् प्रियां वल्लभां तान्तां खिन्नां तथा त्रस्तां भीतां कथम् ? समं सह । केन ? मधुना मधेन तो मयं च त्यक्त्वा इत्यर्थः ॥८२"
१. म० क्रियते' अस्ति । २. म० 7 नास्ति । ३. म. 'अत' भस्ति । ४. क्षा. अस्य श्लोकस्य अपराधः नास्ति । ५. क्षा० / 7 नास्ति । ६. क्षा. 'समंत्रस्तास' भस्ति । ७. क्षा० नास्ति । ८.म० नास्ति ।