________________
शिवभद्रकृतम्
पु० ॥ स सुग्रीवः समन्त्रः आस सविकारः बभूव । केन हेतुना ? कारणस्य लक्ष्मणागमनरूपस्य । तीव्रतया दुःसहत्वेन । कीदृशः ? पतिः । आप्तसतीव्रतया प्राप्तपातिव्रत्यतारया हितम् उक्तः भापितः । किं कृत्वा ? मधुना सुरया समम् । तां प्रियां विहाय सुगं प्रियां च त्यवत्वा इति अर्थः । कीदृशीम् ? वल्लभां ताम् अतः एव तान्तां ग्लानाम् ॥८२॥
रागे विद्वानरतः' तत उपधाशोधितोर्थविद्वानरतः । हनुमान सामात्यं तं हितं परीक्ष्याऽभ्युवाच सामाऽत्यन्तम् ॥८३॥
शां० ॥ गे० ॥ हनुमान वानरविशेषः अभ्युवाच उक्तवान् साम सान्त्वं प्रियवचनम् । कोदृशम् ? अत्यन्तं हितम् अतिशयेन हितम् अनुकूलम् । किं कृत्वा ? परीक्ष्य पर्यालोच्य समुवाच । तं सुग्रीवम् । कीदृशम् ? सामात्य समन्त्रिणम् । कीदृशः हनुमान् विद्वान् पण्डितः । केभ्यः सकाशात् १ ततः वानरतः" तेभ्यः वानरभ्यः तथा अरतः अनासक्तः । क्व ? रागे रागोत्पादके पु विषयेषु । तथा उपधाशोधितः धर्मार्थकामभयाख्योपधापरीक्षितः । तथा अर्थवित अर्थशास्त्रज्ञः प्रयोजनवेदी च ॥८३।।
पु० ॥ तस्मिन इव आयति हनूमान् सामात्यं मन्त्रिसहितं सुग्रीवमभ्युवाच । अभिमुरू: बभापे । कि कृत्वा ? वानरतः सुग्रीवात् साम सान्त्व अत्यन्त हितं सुष्टु पथ्यं परीक्ष्य सुग्रीवकर्तृकं लक्ष्मणविपय सामप्रयोगं हितस्वेन पर्यालोच्य इति अर्थः कीदृशः हनूमान् ? रागे भोगसाधनविषये अरतः असक्तः विद्वान् ज्ञानी तथा चतुर उपधाशोधितं उपधाचतुष्टयशोधितं अर्थ कार्यतत्वं वेत्ति इति । "उपधा अमात्यपरीक्षाप्रकाराः ताः चतस्न: भवन्ति धर्मार्थकामभयानां विषयाणां चतुष्टयात् तत्र धर्मोपधाशुद्धान् धर्मे नियुञ्जीत, अर्थोंपधाशुद्धान् अर्थ, कामोपधाशुद्धान अन्तःपुरे, भयोपधाशुद्धान् आत्मरक्षणे" इत्यादि दण्डनीतिविद्भ्यः ज्ञेयम् ॥८३॥
१. विद्वान् भरतः । २. अर्थविद् वानरतः । ३. म. 'इत्युवाच । १. क्षा० नास्ति । ५. म 'वानरौ' भस्ति ।