SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ হিমছুজ্জায় सदृशो हि स दस्यूनां नीतिमुपेक्षेत यः किल सदस्यूनाम् । यो मार्गः सोऽद्य मया वाच्यो बुद्धया भवद्विधे सोद्यमया ||८|| शां०॥ स ०॥ हि यस्मात् । सः दस्यूनां शत्रणां चौगणां वा सदृशः तुल्यः । यः किलेयो(लेत्या?)गमस्तवे । न पुरुषः उपेक्षेत अवगणयेत् तां चणयोगात् काम ! नीति नयम् । कीदृशीम् ? ऊनाम् असंपूर्णाम् । क्व ? सदसि सभायाम् । तस्मात् यः मार्गः सः अद्य अधुना मया वाच्यः भाषणोयः क ! भवद्विधे युष्मत्प्रकारे । कया बुद्धया ? मत्या । कीदृश्या ! सोद्यमया उद्यमयुक्तया । ८४६ पु० । किमुवाच इति आह-यः मन्त्री सपदि (मदमि) मभायां ऊनां निन्दिता नीति अपनीति उपेक्षेत ज्ञात्वा न ब्रूयात् स किल दस्यूनां सदृशः हि आतुन्यः इत्यर्थः । किल इति मन्त्रित्वस्य मिथ्यात्वद्योतनया(नाय)। हि इनि प्रसिद्धी है हा इति प्रसिद्धौ हेतौ वा । यस्मात् एवं अतः एव अद्य मया यः मार्गः पन्थाः सः भवद्विधे युष्मादृशे राजनि विषये सोधमया उद्योगहि तया बुद्धचा वाच्यः वक्तव्यः बुद्धि पूर्वकत्वात् चान्यः वक्तव्यः इति उक्तम् ।।८४॥ ननु मन्त्रिवाश्यश्रवणेन कि प्रयोजनम् इति आह --- नीतिः का मन्त्रिभ्यः श्रुता न संपादयेत कामं त्रिभ्यः । परिदृष्टनयापनया क्रियात्ययक्ती तु सिध्यति न यापनया ||८५॥ शां० ॥ नीति० ॥ का? नीतिः नयः न संपादयेत अपि तु मर्वा नीतिः संपादयेत पूरयेत । कम् कामम् इन्ठा[म्] । केभ्यः त्रिभ्यः धर्मार्थकामेभ्यः धर्मार्थकामार्थम् कीदृशी ? श्रुता आकर्णिता । केभ्यः मन्त्रिभ्यः अमात्येभ्यः । परिदृष्टनयापनया परिदृष्टः अवलोकितः नयस्य नीतेः अपनयः विनाशः यस्यां सा तथोक्ता तु पुनः क्रिया न सिध्यति न निष्पद्यते । कीदृशी ? अत्ययवती अतिक्रमवती विनाशयुक्ता वा । कया ? यापनया कालहरणेन ॥८५॥ पु० ॥ त्रिभ्यः मन्त्रिभ्यः अमात्येभ्यः श्रुता नीतिः का वा काममभिलषितं न संपादयेत् न कुर्यात् सर्वपि मनोरथं पूरयेत् इत्यर्थः । यतः परिदृष्टौ सर्व १ म. नास्ति । २. क्षा० नास्ति । ३. क्षा० 'भणनीयः' । ४. म० 'सोधमयोक्ताय' । ५. शा. म० नास्ति । ६-७. म० नास्ति ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy