________________
शिवभद्रकृतम् ज्ञानी नयापन यो नानी यस्यां सा क्रिया सिध्यति प्रलं प्रसूयते या अपनया अपगनः नयः नीतिः पन्यां सा अतः एव अत्ययवती अत्ययः नीतिः सा यस्यां पा तथा मा । नुनपलान्तिना एकस्य निर्णतृत्वाभावात् वयोः ऐकमत्ये कार्यनाशस्य अपि संगवे वा त्रिन्यः इति उक्तम् ॥८५।। कुरु माम्ना तमपरुप निगदन्तमपि प्लवंगमोत्तम परुपम् । आदो साम्ना यस्य क्रिया स वेचा नयस्य साम्नायस्य ॥८६॥
शां० ।। कुरु० ॥ तं लःमणम् अपरुपं अपगतरोपं कुरु विधेहि । केन ! साम्ना प्रियवचन। हे 'लवंगोत्तम ! वानरप्रधान ! सुग्रीव ! किं कुर्वन्तम् ! निगढन्तं ब्रुवन्तम् । कथम् ! परुपमपि निष्ठुरमपि यतः स वेत्ता स ज्ञाता नयम्य नानः । कीदृगस्य ! साम्नायस्य सुगुरुपारपर्यस्य सागमस्य वा यस्य क्रियोपक्रमः आदी प्राक् साम्ना सान्त्वेन भवति ॥८६॥
पु० ॥ कः असौ उपायः ? तम् आह-हे प्लवगोत्तम ! कपिश्रेष्ठ ! तं लम्मणं साम्ना प्रियवाक्यादिना अपरुपं अपगतकोपं कुरु । कोदृशम् ! परुपं निष्ठुरम् । अपि निगदन्तम् उच्चैः भापमाणम् । यस्थ पुरुपरय आदौ प्रथमं साम्ना क्रिया सामपूर्वं आरम्भः म नयस्य जेता जैत्रः भवति । कीदृशस्य ? साम्नायस्य
आम्नायः वृद्धोपदेशः तयुक्तस्य इति । "आदौ साम(म) प्रयुञ्जीत साम्ना सिद्धिः व्यवस्थिता" इति ॥८६॥
दण्डेन एव रिपुः जेतव्यः कि साम्ना इति आहरागादपदेशं कः कुर्याधुद्धस्य नयविपदेऽशङ्कः । सर्वत्र नयो जति प्रधनं तेन बलवानपि न योजयति ॥८७॥
शां० रागा० ॥ अपदेशं व्याज छवा । कः कुर्यात् ? न एव कः अपि विदध्यात् । कस्मात् ? रागात् अज्ञानात् । कस्य ? युद्धस्य संग्रामस्य । किभूतः ! जयविद् नीतिशाग्यज्ञः क्व ? अपदे अस्थाने अकाले वा। तथा अशङ्क: निर्भयः । यतः समरिमा प्रयोजने नयः नीतिः जयति । तेन कारणेन बलवान् अपि शक्तियुक्तः अपि प्रधनं संग्रामं न योजयति न करोति ॥८७||
पु० ॥ नययित् नोतिज्ञ को वा अशङ्कः शङ्कारहितः सन् रामं जिगीषया अपदेशे अपस्थाने अपि युद्धस्य आदेशं नामोक्तिं कुर्यात् ? कः अपि न नीतिज्ञः युद्धस्थ नाम अपि न गृह्णाति इत्यर्थः । सर्वत्र कार्ये नयः नीतिः एव जयति । तेन हेतुना बलवानपि समर्थः अपि प्रधनं युदं न योजयति न करोति इत्यर्थः ।