________________
शिवभद्रकाव्यम् उक्तं हि "पुष्पैः अपि न यः अद्धा वरं (योद्धव्यं) किं पुनः निशिनैः शो' इति । यदा लवानपि न युध्येत दुर्बलस्य तव का आशङ्का इह ! ॥८॥
दृष्टा वानरहरिणा के ते स्थास्यन्ति वीरवानर ! हरिणा' । गुप्ति कां तव पुयो पश्यसि च स नाभिहन्ति कान्तवपुर्याम् ॥८८॥
शां०॥ दृष्टा० ॥ हे वीर ! चारभट ! के ते बानरहरिणाः मर्कटमृगाः स्थास्यन्ति । कीदृशाः सन्तः दृष्टा अवलोकिताः । वा अथवा । केन ! तेन हरिणा पुरुषसिंहेन लक्ष्मणेन । तथा ते तव पुयाँ नगयाँ गुप्ति रक्षाम् पश्यसि निरीक्षसे । तां यां स लक्ष्मणः न अभिहन्ति न तिरस्करोति । कीदृशः ! कान्तवपुः कमनीयशरोरः ||८८॥
पु० ॥ वाशब्दः पक्षव्यावृत्तौ । नरहरिणा पुरुषसिंहेन लक्ष्मणेन दृष्टाः ते तव वानरहरिणाः कपिहरिणा मृगाः स्थास्यन्ति अपि तु न कपिमृगाः स्थास्यन्ति । यथा सिंहेन दृष्टाः हरिणाः सत्वरं पलायन्ते तद्वत् तेन दृष्टाः कपयः अपि इत्यर्थः । तव पुया कां गुप्ति रक्षां पश्यसि यां गुप्ति कान्तवपुः मनोहगात्रः लक्ष्मणः तरसा बलेन कृत्वा अभिहन्ति । तादृशी कापि तव पुंर न अस्ति इत्यर्थः । अब राधे विषये त्रिकोट्योऽपि च स्युः । त्रिसंख्याकाः कोट्यो भवेयुः । संभावनायो लिङ् ॥८॥
प्रणयैरपराधेयाः सतां भृकुटयोऽपि च स्युरपराने याः । ता हि नधैरस्यन्ते सान्त्वैस्तस्मात्क्षमं न वैरस्यं ते ॥८॥
शां० ॥प्रण॥ अपिच किंच । हि तस्मात् । नवैः प्रत्यप्रैः । सान्त्वैः सामप्रयोगैः । ताः भ्रकुटयः अस्यन्ते निराक्रियन्ते याः सतां सत्पुरुषाणां । अपराधे स्युः । कीदृश्यः अपराधेयाः अनारोपणीयाः । कः प्रणयैः स्नेहैः कृत्वा । तस्मात् न क्षमं न युक्तम् । वैरस्यं वैमु7 ख्यम् कस्य ते तव । येन च रसेन प्रीतिः तेन एव रसेन वर्धनीया न वैरस्य कार्यम् इत्यर्थः ॥८९॥
पु० ॥ कीदृश्यः सतां साधूनां प्रणयैः प्रार्थनाभिः अपराधेयाः समाधातुमशक्याः ते अपराधाः कोटयोऽपिना नवैः नूतनैः । सान्त्वैः सामप्रयोगैः ।
१. वानर ! हरिणा अथवा वा नरहरिणा । २. कां तव पुर्याम् । ३. कान्तवपुर् याम् । ४. नवैः अस्यन्ते । ५, म नास्ति ।