________________
शिवभद्रकृतम् अस्यन्ते क्षिप्यासे निराक्रियन्ते । हिशब्दः अवधारणे तौ एव इत्यर्थः तस्मात हेतोः तेन वैरस्यं नेष्टुर्य न क्षमं न युक्तम् । पारुष्यं परित्यज्य लक्ष्मणं सान्त्वय इति भावः ॥८९॥ अथ सस्मितमिदमुक्तो नयशोभी नेन
प्लवगेश्वरेण हनुमानयशोभीतेन । दृिष्ट्या रमसे सामनि परमे वचसां त्वं
मुनो हि वदति मित्रं परमेव च सान्त्वम् ॥१०॥ शां०॥ अध०॥ अथ अनन्तरं हनुमान् तेन प्लवगेश्वरेण वानरप्रभुणा सुग्रीवेण । कीदृशेन ? अयशोभीनेन अकीर्तित्रस्तेन इदमुक्तः अपि भणितः । कथम् ? सस्मितं सहास्यम्' । कीदृशः हनुमान् । नयशोभी नीतिराजितः । किं भणितः ? दिष्टया पुण्येन त्वं रमसे रतिं करोपि । हि समञ्जसत्वेन (१)। कीदृशे ? परगे प्रधाने । केषाम् ? वचसा वाचाम । हि यस्मात । सुजनः सत्पुरुषः मित्रं सखायं सांत्वमा(म् ! ) वचसामेव च बदति । क। सस्यपुष्टिकालोपेतस्य उपकार कस्य नयस्य वा कालोपेतस्य ॥९०॥
पु० ॥ अथ हनुमद्वचनान्तरं प्लवगेश्वरेण सुग्रीवेण हनूमान् सस्मितम् इदं वक्ष्यमाणम् उक्तः । कीदृशः हनूमान् ? नयेन नीत्या शोभते तच्छील इतिनयशोभी । कीदृशेन प्लवगेश्वरेण । अयशोभीतेन अयशसः अकीर्तेः सकाशात् भीतेन त्रस्तेन । किम् उक्तः इति आह-त्वं दिष्टया वचसां परमे उत्कर्षे वर्तसे इति शेषः । दिष्टया इति हर्षद्योतकः निपातः । तथा हि स जनः अपि अत्र सखायं सान्त्वम् एव वदति चशब्दः निर्वाहार्थः । यथा गात्रं न खळूनम् इति अत्र खलुशब्दः । नयशोभी इति "शुभ दंतौ" 'सुष्यजातौ णिनिस्ताच्छील्ये' (पा.३.२.७८) इति णिनिः ॥९॥ सौम्य न हास्यति बुद्धिः सामोदा रामे सौहार्दबद्धमूला सामोदारामे । स्यान्मादृशस्य तुष्टिः का लोपे तस्य उपकारस्य नयस्य वा कालोपेतस्य ॥९१॥
शा० सौम्य०॥ हे सौम्य ! हनुमान् । मे मम बुद्धिः मतिः न हास्यति । न भ्रशं यास्यति । कीदृशी ? सामोदारा साम्ना सामप्रयोगेण सामि चोदारारें
१. म० 'सहास' अस्ति । २. क्षा० स्वादशमनिमांसत्वे' अस्ति । ३ म० 'तु सखा यस्य त्वमेव वचसामं च वदति' अस्ति । १, म. "साग्मिीयस' अस्ति ।