________________
शिवभद्रकाव्यम् प्रवरा सामोदारा । तथा सौहार्दबद्धमूला सौहार्दमेव मित्रत्वमेवे वद्धं दृदं मूलं यस्याः सा तथा सामोदा सहर्षा । कस्मिन् ? रामे रामविषये । का तुष्टिः संतोषः स्यात् भवेत् नैव भवेत् ? इत्यर्थः । कस्य ? मादृशस्य । क सति ? लोपे विनाशे सति । कस्य ? उपकारस्य उपष्टम्भस्य । कीदृशस्य ? कालोपेतस्य समयप्राप्तस्य । च तथा नीतेश्च । कस्य संबन्धिनः ? तस्य रामस्य ॥९१॥ नाहं क्षणमपि सैन्ये सन्नेत्रस्येयं
श्रीर्यदि न तस्य वीर्यात्सन्ने त्रस्येयम् । यत एति सुहृत्कुपितः स महर्षभयातो
दोलायते मतिरिय समहर्षभयाऽतः ॥९२।। । शां० नाह०॥ यदि तस्य रामस्य । कीदृशस्य ! सन्नेत्रस्य शोभनलोचनस्य । वीर्यात् प्रतापात् । इयम् एषा श्रीः लक्ष्मीः न भवेत् तदा न अई त्रस्येयं त्रासं भजेयम् । कथम् १ क्षणमपि मुहूर्तमपि । क सति ? सैन्ये कपिसेनायां सन्ने त्रस्ते सति । यतः च एति यस्मात् आगच्छति । कः असौ : सहद मित्रम् । कीदृशः सः ? कुपितः रुष्टः सन् । तथा महर्पभयातः महावृषभगमनः अतः अस्मात् हेतोः इयं मतिः बुद्धिः मम दोलायते संशयारूढा भवति न जाने किं करिष्यति इति । कीदृशी ! समहभया तुल्यतुष्टिनासा सुहृदागमनकोपाभ्याम् ॥१२॥
पु० किं च अहं सैन्ये कपिबले सन्ने अवसादं प्राप्ते अपि न अस्येयं न भीतः भवेयम् । इयं श्री लक्ष्मीः सन्नेत्रस्य शोभनलोचनस्य तस्य लक्ष्मणस्य संबन्धिनः वीर्यात सामर्थ्यात् यदि न भवेत् शंप्रदा इयं राज्यसमृद्धिः जाता इति भीतिः क्रियते इति भावः सुहृद् मित्रभूतः सः लक्ष्मणः कुपितः सन् यतः एति यस्मात् आगच्छति । अतः मम मतिः वेला मर्यादां अवलम्बते । कीदृशी मतिः ! समहर्षभया समे हर्षेभये यस्यां सा तथा । मुहृद् आयाति इति हषः । कुपितः सन आयाति इति भीतिः। कीदृशः सः ? महर्षभयातः महोक्षस्य इव यातं गमनं [यस्यस तथा । दोलायति इति कण्ड्वादिपाठात् यक् इति शिवभटीका समाप्ता ॥९२॥
१. 'मित्रमेव' अस्ति । २. अस्य लोकस्य पु. टीका नास्ति । ३. सन्नेत्रस्य श्यम् । १. सन्ने त्रस्येयम् ।