SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ५८ शिवभद्रकृतम् ज्योत्स्नां शुकपरिधाना आशायत्तस्य जनयन्ति शोकमतुलमाशा यत्तस्य । अद्यापि यच्च कपयः समाहियन्ते न स्खलितमुपनेतुमर्हति समा हियं तेन ॥९३॥ शां० ज्यो० ॥ तेन कारणेन व लक्ष्मणो मम हियं लज्जां स्खलितं क्षणमुपनेतुं ढोकयितुम् अर्हति योग्यः भवति यत् यस्मात् तस्य रामस्य ( आशाः दिशः शोकं शुचं दुःखं जनयन्ति । कीदृशम् अतुलम् अप्रमाणम् । कीदृशस्य ? तस्य) आशायत्तस्य मनोरथाधीनस्य । कीदृश्यः आशाः ? ज्योत्स्नांशुक्रपरिधाना चन्द्रकान्तवस्त्रच्छादनाः । यतः तथा यच्च यस्मात् च अद्य अपि अधुना अपि कपयः वानराः न समाहियन्ते न मील्यन्ते ॥ ९३ ॥ ४ वीक्ष्य शरन्मुखमुडुपतिविशेषकोपेतं प्रणयेन वर्तमान विशेषकोपे तम् । कृत उपकारः सख्यं न वञ्चनामेति अस्मद्विधमनुगमयन्नवं च नामेति ॥ ९४ ॥ शां• ॥ वीक्ष्य ॥ स लक्ष्मणः न वञ्चनां स्खलनम् एति गच्छति । किं कारयन् ? अनुगमयन् योजयन् । कथम् ? अस्मद्विधं मादृशम् । कम् अनुगमयन् ? तं रामम् । कथम् कृत उपकारः सख्यं न वञ्चनामेति । कृतः विहितः अस्माभिः भवतामुपकारः तारासमर्पणः (१णम्) लक्ष्मण ! तथा सख्यं मित्रत्वं च नवं नूतनं कृतं भवद्भिः सह अस्माभिः । कथं नाम व्यक्त इति अनेन प्रकारेण । कीदृशम् लम् ? वर्तमानं तिष्ठन्तम् क विशेषको अधिककोधे । किं कृत्वा ? वीक्ष्य अवलोक्य । कि तत् ! शरन्मुखं शरत्कालप्रारम्भः । कीदृशम् ? उडुपतिविशेषकोपेतं चन्द्रतिलकयुक्तम् : केन वीक्ष्य : प्रणयेन प्रीत्या ॥ ९४ ॥ १. क्षा० 'मामद्भियं' अस्ति । २. म० नास्ति । ३. म० 'मनोरथाधारस्य' अस्ति । ४. अस्य श्लोकस्य पु० टीका नास्ति । ५. क्षा० मां सह अस्ति । ६. क्षा० नास्ति । ७. अस्य श्लोकस्य पु० टीका नास्ति ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy