________________
शिवभद्रकृत "गुर्वन्ताष्टमगणभागार्या पूर्वार्धसदृशशकलद्वितया [जयदेवच्छन्दः ४-१४] इति एतल्लक्षणम् । चेदिशब्दात् "वृद्वेत्कोसला जादाभ्य' [पा. ४. १. १६९.*] । अहन् इति हतेः लङ् । अमुचत् इति मुचेः लुङ् । लुङि चाद् अ ॥१॥
मुरगणसाध्यमहा यः कालिन्दीहदमुपेत्य साध्वसहायः ।
घोरं नागमदन्तं ममर्द यस्येश्वरोऽपि नागमदन्तम् ॥२॥
शां० । सुर० यश्च हरि. नागं सर्प कालियाख्यं ममर्द चूर्णितवान् । कीदृशम् ! घोरं गैद्रम् । किं कुर्वन्नम् ! अदन्तं भक्षयन्तम् । अथवा नागमदं कालियसर्पदर्ष ममर्द । किं कृत्वा ? उपेत्य गत्वा । कथं साधु शोभनम् । कम् ? कालिन्दाहदम् । यमुनाशोणम् । कीदृशः हरिः ? असहायः एकाकी। तथा सुरगणसाध्वसहा यः देववृन्दभयहन्ता असुरविनाशित्वात् । यस्य नागस्य नागमदस्य वा ईश्वरोऽपि गरुडोऽपि पक्षीश्वरत्वात न अगमत् न गतः । कम् ? अन्तं विनाशम् । यद् वा यस्य हरेः ईश्वरः अपि अन्तम् पर्यन्तम् न भगमत् न प्राप्तवान् ॥२॥
पु० । यः कृष्णः घोरं भयंकरं नागं भुजङ्ग कालियाख्यं साधु सम्यक् ममर्द चुक्षोद । किं कुर्वन्तम् अदन्तं खादन्तम् । यमुनाइदं प्राप्य । किंभूतः ? असहाय एकाकी। तथा सुरगणस्य देवसंघस्य साध्वसं भयं हन्ति इति सुरगणसाध्वसहा । कि च यस्य कृष्णस्य अन्तम् ईश्वरः अपि शंभुः अपि न अगमत् न प्रापत् । बाणयुद्धे यं जेतुं न शक्तः इत्यर्थः । यस्य अन्तं पार शिवः अपि न अगमत् न अज्ञासीद इति वा ॥२॥
अभृत यः सुरतरुज सेयं दयितामनोरथं सुरतरुजम् ।
यश्च परां भोजानां ख्याति चक्रे शशी पराम्भोजानाम् ॥३॥
शां० । अभृत० यश्च अभृत पूरितवान् । कम् ? दयितामनोरथं सत्या, भि(त्यभा)माप्रियाभिलाषम् । कीदृशम् ? सुरतरुजं पारिजातद्रुमपुष्पप्रभवम् । तथा
*In numbering the sūti as, I have followed the Aştādhy āyi-sūtrapātha of Niruaya sāgara Press, Bombay 1954).
१. लुखि च ॥ १० २. ४. ४३ ॥ इत्यस्मात् सूत्राद् अङ् । २. म० "कालियसर्पदवम् । ३ सुर+त+ज अथवा सुरत+रुजम् । ४. म० भरितवान् ।