________________
टीकाद्वयसमेत
शिवभद्रकाव्यम्। शां० साम्प्रतं शिवभद्राख्यस्य काव्यस्य वृत्तिः क्रियते । तत्र चादौ शिवभद्रनामा कविरिष्टदेवतायै नमस्कारं मङ्गलार्थमाह
प्रणमत सदसिगदं तं चद्यमहन् योऽप्रियाणि सर्दास गदन्तम् ।
चूर्णितचक्रतुरङ्ग रुक्मिणममुचच्च यस्य च क्रतुरङ्गम् ॥१॥ शां० । प्रण० तं सदसि-गदं सत्यौ शोभने असि-गदे खड्ग-यष्टी यस्य सः तथोक्तः तं हरि प्रणमत प्रकर्षेण नमत । यः हरिः अहन् हतवान् । कम् ! चैध शिशुपालमसुरम् । किं कुर्वन्तम् ? सदसि सभायाम् अप्रियाणि दोषान् गदन्तं ब्रुवन्तम् । यश्च अमुचत मुक्तवान् । कम् ! रुक्मिणं रुक्मिणीमातरं राजानम् । कीदृशम् ? चूर्णित. चूर्णितौ ध्वस्तौ चक्र-तुरङ्गौ रथाङ्गाश्वौ यस्य स तथोक्तस्तम् । यस्य च हरेः क्रतुः यागः अङ्गम् अवयवः यागरूपत्वात् तस्य । - पु० । श्रीजिनाय नमः । । तं प्रणमत वन्दध्वम् इति उपदेशः, "रामादिवत् वर्तितव्यं न रावणादिवत्" [ काव्यप्रकाश, १.२ ] इति उपदेशपरत्वात् काव्यस्य उपादेयत्वं सूचयितुम् निर्दिष्टः प्रणामः । यदाहुः- "कान्तासंमिततया उपदेशयुजे'' इति । किंविशिष्टम् ? असिः खङ्गः नन्दनाख्यः, गदा कौमोदकी, सत्यो प्रशस्ते असि-गदे यस्य तम् । कीदृशम् ? 'तत्श'ब्दस्य प्रक्रान्ताद्यर्थाभावेन साकाहत्वाद् असाधारणव्यापारोक्तिद्वारा विशिनष्टि-यः चैधं चेदिराजं शिशुपालम् अहन् अमारयत् । सदसि युधिष्ठिरं राजसूयसमाजे अप्रियाणि परुषवाक्यानि गदन्तं भाषमाणम् । किञ्च, यः रुक्मिण रुक्मिणीभ्रातरं अमुचत् मुक्तवान् । कीदृशम् ! चूर्णितानि ध्वंसिना(ध्वस्ता)नि चक्रे रथाङ्गे तुरंगाः च यस्य [तं] भग्नरथं विधाय युक्तिधि (भिः") जीवनाहं गृहीत्वा रुक्मिणीप्रीत्यै मुमोच इत्यर्थः । अपि च, कृष्णस्य यज्ञः अङ्ग शरीरम् “यज्ञो वै विष्णुः" इति श्रुतेः । अस्मिन् पादान्तयमकं शब्दालङ्कारः । स्कन्धकापरनाम्नी आर्यागीतिश्छन्दः ।
१. तुलनीयम्- काव्यप्रकाशे, १. २. २. पु० प्रतौ तु “यस्य युक्तिधिःभग्नरथ विधाय जीवप्राह" भस्ति ।