________________
शिवभद्रकाव्यम् मरतरुजं सद्रतभङ्गकरम् । सेय॑म् ईायुक्तम् । यश्च हरिः ख्याति प्रसिद्धि पराम उत्कृष्ट चक्रे कृतवान् । केषाम् ? भोजानां भोजवंशजानां राज्ञाम् तद्गुणविस्तारणात् । कीदृशः हरिः ? शशी चन्द्रः संकोचकारित्वात् । केषाम् ? पराम्भोजानां शत्रुपद्मानाम् ॥३॥
पु० । अपि च यः कृष्णः सुरतरुज सुरतरुषु नन्दनद्रुमेषु जातं पारिजातं अहत' हृतवान् । कीदृशम् १ दयितायाः सत्यभामायाः मनोरथं इच्छाविषयं तथा सुरतं रुजति अनक्ति इति सुरतरुक् तम् आप्तकाले सः भोगप्रतिवन्धकः यतः । सेष्य ईर्ष्यायुक्तम् । हरिवंशे नारदानीतपारिजातकुसुमे कृष्णेन रुक्मिण्यै दत्ते, तदीकिपायितां सत्यभामामनुनयता तेन देवलोकात् पारिजातः च आनीतः इति । यः च कृष्णः भोजानां यादवविशेषाणां परां ख्याति उत्कृष्टां कीर्ति चक्रे भगवदुत्पत्त्या तत्कुलस्य महती कीर्तिः जाता । कीदृशः ? पराम्भोजानां शत्रुपनानां शशी चन्द्रः संकोचकत्वात् । अहृत इति हुञः लुङि "झलो झाल [पा०८. २. २६]" इति सिचः लोपः “पराम्भोजानां शशी" इत्यत्र परंपरितरूपकालङ्कारः । इदानी कविः कीर्तिप्रदं इत्यथै राजस्वपितृवर्णननामपूर्वकं आत्मीयनामकथनं च निर्दिशति ॥३॥
पु० । एवमिष्टदेवतास्तवं कृत्वा साम्प्रतं राज्ञः जनकस्य च वर्णनमाह-'
अस्ति सतामतिमान्यः ख्यातो राजा प्रभजनो मतिमान्यः । प्रच्युतिरन्यायस्य श्रोत्रसुखा काव्ययुक्तिरन्या यस्य ॥४॥
शां० । अस्ति० अस्ति विद्यते । कः असौ ? राजा नृपः । कीदृशः ? अतिमान्यः अतिशयपूज्यः । केषाम् ? सतां महताम् । तथा ख्यातः प्रसिद्धः । तथा मतिमान् बुद्धियुक्तः । किंनामा ? प्रभजनः प्रभञ्जनाख्यो यो राजा । प्रच्युतिः विनाशकः । कस्य ? अन्यायस्य अनीतेः अविनयस्य वा । तथा यस्य प्रभञ्जनस्य काव्ययुक्तिः काव्यरचना । कीदृशी ? श्रोत्रमुखा कर्णसुखदायिनी । तथा अन्या असाधारणा अनन्यसमा ॥४॥
१. पु० अहृत इति पाठः स्वीकृतः । २. म०-प्रतौ इदं वाक्यं नास्ति । ३. सताम्+अतिमान्यः । ४. मतिमान्यः । ५, म. प्रतौ "अविनयस्य वा" नास्ति ॥