________________
शिवभद्रकृतम् पु.। प्रभजननामा ख्यातः प्रथितः राजा अस्ति । काव्यकरणसमये वर्तमानत्वात् अस्ति इति निर्दशः । कीदृशः ? सतां विदुषाम् अतिमान्यः सुष्टु माननीयः यः राजा मतिमान् प्रशम्नवुद्धिः तथा अन्यायस्य अधर्मस्य प्रच्युतिरूपः ध्वंस इत्यर्थः । यस्य काव्ययुक्तिः काव्य विषयो व्यापारः लोकोत्तरः । कीदृशी ? श्रोत्राणां सुखा सुस्वयात इत्यर्थः 'यत्' शब्दस्य उत्तरवाक्यस्थत्वात् न 'तत्'शब्दापेक्षा ॥४॥
रणशिरसि क्षणहिता' यस्य न तिष्ठन्ति भूश्च रक्षणमहिता'।
सर्वकलापारमतेरम्भोनिधिमेखलाकलापा रमते ॥५॥
शां० । रण. यस्य प्रभञ्जनस्य । रणशिरसि संग्राममस्तके । अहिताः शत्रवः न तिष्ठन्ति न आसते । कथम् क्षणम् अपि मुहूर्तमपि । यस्य भूः च पृथिवी" च रमते क्रीडति क्रीडापरम्(ग) आबभूव इत्यर्थः । कीदृशी सती ? रक्षणमहिता त्राणपूजिता । तथा अम्भोनिधिमेखलाकलापा समुदरसनासमूहा । किंभूतस्य राज्ञः ! सर्वकलापारमतेः सर्वकलागीतादिविज्ञानातिशयपर्यन्तवुद्धेः ॥५॥
पु० । यस्य रणशिरसि युद्धमस्तके अहिताः क्षणमपि न तिष्ठन्ति । यस्य रक्षणेन पालनेन महिता पूजिता भूश्च रमते खेलति । कीदृशी भूः ? अम्भोनिधयः समुद्राः एव मेखला काञ्चोगुणः यस्याः । कोदशस्य राज्ञः ? सकलाः कला गीतनृत्य-म्बङ्ग-गज-तुरगादिविद्याः [ताः] पिपर्ति रक्षति इति सकलकलापारी तादृशी] मतिः बुद्धिः यस्य इति पुंवभावात् ईकारवृित्तिः । सर्वकलानां पारे मतिः यस्य इति वा ॥५॥
ब्रह्म कली सत्यवतस्तस्याचायस्य सूनुना सत्यवतः ।
नेयमनाम्नायमिता रामकथेति शिवभद्रनाम्ना यमिता ॥६॥ शां० । ब्रह्म न इयं न असौ रामकथा रामदेवाख्यायिका इत्यर्थः [का] वक्ष्यमाणा । अनाम्नायम् गुरुपारम्पर्यशून्यं यथा भवति तथा एव इता प्राप्ता सती । यमिता यमकैः रचिता किन्तु साम्नायं प्राप्ता सती यमकैः रचिता इत्यर्थः । केन ? सुनुना पुत्रेण । कस्य ! आचार्यस्य गुरोः । किनाम्नः ? सत्यवतः 'सत्यवान्' इति नाम्नः । कस्य गुरोः ? तस्य प्रभजननृपस्य । कीदशस्य आचार्यस्य ? अवतः रक्षतः । किं तत् ! ब्रह्म ज्ञानम् । क ! कलौ कलिकाले । कोदृशे ! सति विद्यमाने । किनाम्ना पुत्रेण शिवभद्रनाम्ना शिवभद्राभिधानेन । एवं राज्ञः गुणाः वर्णिताः पितुः च । अधुना रामकथा प्रस्तूयते ॥६॥
१. क्षणम्+अहिता । २. रक्षण महिता । ३. म. प्रतौ नास्ति । १. क्षा. सकलगीतादि० ।