________________
शिवभद्रकाव्यम् ' पू० । तस्य राज्ञः यः आचार्यः तत्सुनुना शिवभद्रनाम्ना कविना वक्ष्यमाणकथा यमिता यमकालङ्कारेण रचिता । कुतः पुनः अन्याः कथाः त्यक्त्वा 'इयमेव आदता इति अत आहः-इयम् अनाम्नायं श्रुति न इता प्राप्ता किन्तु श्रुतिमूला एव रामविषया च इयं कथा इति । यद् आहुः वेदवाक्ये परे पुंसि जाते दशरथात्मजे वेदः प्राचेतसात् आसीत् साक्षात् रामात्मना इति । कीदृशस्य आचार्यस्य ?.... ॥६॥ शां० एवं राज्ञः गुणाः वर्णिताः पितुः च । अधुना रामकथा प्रस्तूयते । .
अथ कृतसङ्गत्यागे स्थितवति रामे कपीन्द्रसङ्गत्याऽगे। . . प्रोषितनीरजनिकरा' वर्षा ययुरभ्ररोधनीरजनिकराः ॥७॥
शां० । अथ० अथ अस्मिन् अन्तरे । वर्षाः मेघकालाः ययुः गताः । कीदृश्यः प्रोषितनीरजनिकराः भ्रष्टपनसंघाताः । तथा अभ्ररोधनीरजनिकराः अभ्ररोधेन मेघावरणेन निर्नष्टः रजनिकरः चद्रमा यासु ताः तथोक्ताः । व सति ? रामे रामदेवे स्थितवति आसीने सति । क ? अगे गिरौ । कया ? कपीन्द्रसङ्गत्या सुग्रीवमैत्र्या । कीदृशे रामे ? कृतसङ्गत्यागे वियोगिनि ॥७॥
पु०। सुग्रीवस्य संगत्या हेतुभूतया अगे पर्वते माल्यवति [रामे] स्थितवति सति वर्षाः ययुः प्रावृड् गता । कीदृशे रामे ! कृतः संगत्यागः सुग्रीवादिमेलकविसर्जनं येन । सुग्रीवादीन् विसृज्य प्रावृडन्तरं तत्संगत्यर्थ माल्यवति स्थितः इत्यर्थः । कीदृशाः वर्षाः ! प्रोषिताः प्रनष्टाः नीरजानां पानां निकराः वृन्दाः यासु तथा अभ्ररोधेन नीरजनिकराः अदृष्टचन्द्राः इत्यर्थः "अप्-सुमनस्-समा-सिकता-वर्षाणां बहुत्वं च" (पाणिनीय लिङ्गानुशासनस्त्र्यधिकारे २९] इति वर्षाशब्दो नित्यं बहुत्वे ॥७॥
विरहे हरिणा क्षीणां तनुमनुकम्प्येव नाम हरिणाक्षीणाम् । . स्वधनुर्विशदभ्रान्त संजहे विद्युतां च विशदभ्रान्तम् ॥८॥ .
शां० । विर० हरिणा इन्द्रेण स्वधनुः स्वीयं चापं संजह संदतम् । किं कुर्वत् ? विशत् । किं तत् ? अभ्रान्तं मेघमध्यम् । किं कृत्वा एव ? अनुकम्प्येव अनुगृह्येव । काम् ? तनुं शरीरम् । किंभूताम् ! क्षीणां कृशाम् । क ? विरहे वियोगे।
१. नीरजनिकराः । २. निर+रजनिकराः । ३. स्वधनुर+विशत्+अभ्रान्तम् । १. विशद+भ्रान्तम् ।