________________
शिवभद्रकृतम् कासाम् ! हरिणाक्षीणां मृगनेत्राणाम् । कथम् ? अनुकम्प्येव नाम अव्यक्तम् । तथा विद्युतां तडितां च विशदभ्रान्तं स्पष्टक्रमणं संजरे ॥८॥
पु० । अथ दशभिः वर्णयति शरदं कविः ।
हरिणा शक्रेण स्वधनुः स्वर्क यं चापं संजहे संहृतम् । विद्युतां विशदभ्रान्त निर्मल भ्रमणं सजहे संहृतम् । कीदृशं धनुः ? अभ्रान्तं मेघान्तिकम् । विशत प्रविशत् । उत्प्रेक्षते । विरहे प्रियविरहे हरिणाक्षीणां क्षीणां] कृशां तनुं गात्रं मनुकम्प्येव यित्वा इव कृपाविषयीकृत्य इव इति । नाम संभावनायाम् । संजहे'। कर्मणि लिट् । भ्रान्तम् इति भावे क्तः ॥८॥
न तडित् सा भ्रमतीतः
कालमसौ दिनकरश्च साभ्रमतीतः । इत्येकरसं काशाः
स्फुटमिव जहसुः शशाङ्ककरसंकाशाः ॥९॥ शां० । न तडि० काशाः तृणजातयः । स्फुटमिव व्यक्तमिव । जहमुः हसितवन्तः । कीदृशाः शशाङ्ककरसंकाशाः चन्द्ररश्मितुल्याः । कथम् ? एकरसम् अत्यन्तम् । कस्मात् ! इति हेतोः । सा तडित् विद्युत् न भ्रमति [न] विलसति । क ! इतः अस्मिन् प्रदेशे । तथा असौ दिनकरः च रविः । साभ्रं समेघकालं वर्षाकालम् अतीतः अतिक्रान्तः ॥९॥
पु० । किञ्च, काशाः स्फुटं प्रकटं एकरसं एकः रसः हासरसो यत्र तत् तथा जहसः । कीदृशाः काशाः ! चन्द्रकिरण सदृशाः । हासं चक्रुः इव इति उत्प्रेक्षा । हामहेतुम् आह-सा तडित् इतः अस्मिन् समये न भ्रमति । दिनकरः च सूर्यः च सान समेघकालं अतीते अतिकान्ते इति । 'इतः' इति आद्यादित्वात् सप्तम्यर्थे तसिः ॥९॥
इंसेप्वधिकान्तरवः शारदिकां कान्तिमूहुरधिका तरवः । कुटजा हा समयोगात्स्व इतीव जहुश्च पुष्पहासमयोगात् ॥१०॥ 1. म० "म बहे न हतम् । २ द्रष्टव्यम्-"प्रतियोगे पञ्चम्याः तमिः" (पा.५. १, ४५) इत्यस्मिन्सूत्रे वार्तिकम् “तसि
प्रकरणे माद्यादिभ्य उपसंख्यानम् इति ।। ३. समय: भगात् । ५. पुमहासम् अयोगात् ।