________________
शिवभद्रकाव्यम्
११
शां० । हंसेषु० हंसेषु चक्राङ्गेषु । अधिकान्तरवो अधिककमनीयः शब्दः अभूत् । तरवः वृक्षाः शारदिकां शरत्कालप्रभवां कान्ति शोभाम् अधिकाम् अनर्गलाम् कः भृतवन्तः । तथा कुटजाः वृक्षविशेषाः पुष्पहासं पुष्पाणि एव हार्स पुष्पैर्वा हासं हसितं जहुः तत्यजुः । कस्मात् ? अयोगात् असंबन्धात् अयुक्तत्वात् तस्याम् अवस्थायां हासस्य । कस्मात् जहुः ? इति इव अस्माद् एव हेतोः । हा कष्टं स्वः' स्वकीयः समयः कालः अस्माकम् अगात् गतः इति ॥ १० ॥
2
पु० । कान्तरवः रम्यः ध्वनिः हंसेषु अघि हंसानां स्वभूतः आयत्तः जातः । तरवः द्रुमाः च शारदिकां शरदि भवां कान्ति शोभां कहुः विभरांबभूवुः । कुटजाः वशकाख्याः वृक्षाः च पुष्पहासं पुष्परूपं हासं अयोग्यत्वात् अयुक्तत्वात् इव जहुः तत्यजुः । इति शब्दः उत्प्रेक्षायाम् । हेतुमाह-स्वः समय आत्मीयः कालः वर्षातुः अगात् गता (तः) इति हा इति विषादे । हंसेषु अधि इति " यस्मादधिकं यस्य वेश्वरवचनम् [ तत्र सप्तमी]" [पा. २ ३९ ] इति स्वाम्यर्थात् तत्र सप्तमी अधि ब्रह्मदत्ते पाञ्चालाः इतिवत् । शरदि भवा शारदी [सा एव शारदिका ] स्वार्थे कः । “केऽगः" [पा. ७. ४. १३ ] इति ह्रस्वः । ऊहुः इति वहेः लिट् । अगात् इति इणः लुङ्गादेशः सिचः लुक् ॥१०॥
T
गतघनपटलाभोगैः प्राप्तोऽशनवाणकुसुमपटलाभोऽगैः । ● अमुचत् कं पङ्कमलं प्रणनर्तेवाऽलिजनितकम्पं कमलम् ॥११॥
शां० । गतघन० अगैः पर्वतैः प्राप्तः लब्धः । कः असी ? अशनबाणकुसुमपटलाभः बीजकनवप्रसूनवस्त्रप्राप्तिः । कीदृश: ? गतघनपटलाभोगे। नष्टमेघवृन्दविस्तारैः रैः । तथा अमुचत् तत्याज । किं तत् ? के जलम् ? पङ्कमलं पङ्क एव कर्दमः एव मलः तं यद्वा पकर्दमं अलम् अत्यर्थम् अमुचत् तथा कमलं प प्रक्रर्षेण नर्त इव नृत्यति स्म इव । कीदृशम् ? अलिजनितकम्पं भ्रमरोत्पादित कम्पनम् ।
पु० । अशनानां सर्जकानां बाणानां झिण्टीनां च यानि कुसुमानि तानि एव पट : अंशुकं कुसुमपटः कुसुमविस्तारः इव विस्तारो येषां तैः । किञ्च, कं पानीयम् !
१. क्षा० " बभूवुः " ।
२. म० प्रतौ नास्ति ।
३. अमुञ्चत् के पङ्कमलम् ।
४. अलिअनित कम्पं कमलम् ।
५. क्षा० प्रतौ “बीजवारिंदीपुष्पवस्त्राय" अस्ति ।
६, म० प्रतौ " कर्तृकं कमलम्" अस्ति ।