________________
१२
शिवभद्रकृतम्
पक्कमलं कर्दमरूपं मलं अमुचत् तत्याज | अगस्त्योदयात् प्रसन्नमित्यर्थः । कमलं पच प्रणनर्त इव नृत्तं चकार इव यतः अलिभिः जनितः कम्पः चलनं यस्य तत् ॥११॥
कुमुदनवर्द्धिततापा:' वाप्यः शुष्का महीनवर्द्धिततापा । चप्राणां कलमवतां भद्रं गीतं च शुश्रवे कलमवतास् ॥१२॥
शां० । कुमु० वाप्यः दीर्घिकाः वर्तन्ते । कीदृश्यः ? कुमुदनवर्द्धिततापाः । मही च शुष्का को इनवर्द्धिततापा सूर्यस्फीत संतापा । तथा प्राणां केदाराणाम् अवतारक्षकाणां संबन्धि कलं मधुरं भद्रं चारु गीतं गानं आकर्ण्यते स्म । कीदृशां वप्राणां कलमवतां शादियुक्तानाम् ॥१२॥
पु० । वाप्यः दीर्घिकाः कुमुदानां नवा नूतना ऋद्धिः संपत्तिः तथा तताः व्याप्ताः व्याप: अम्भसि यासु तथाभूताः जाताः । मही भूमिः शुष्का निःपका जाता यतः इनेन सूर्येण वर्धितः तापः यस्याः सा । किं च कलमवतां कलमाख्यशालिनां वप्राणां केदाराणाम् अवतां रक्षकाणां कलं मधुरं भद्रं गीतं शुश्रुवे श्रुतं कलमरक्षकाणां गानं श्रुतम् । चप्राणां इति कर्मणि शेषे षष्ठी न कूर्मस्याश्नीयात् इतिवत् । वप्राणां भद्रमथवा क्षेमं कुर्वतामिति वा ततापा इति " ऋक्पूरब्धूः पथामानक्षे" [पा. ५.४. ७४ ] इति समासान्तः ॥ १२ ॥
भ्रमराः कादम्बमदस्त्यजन्ति मधु वर्धते च कादम्बमदः । वर्षाः सद्यो गमिता इतीव बहुला निशाश्च सद्योगमिताः ॥ १३ ॥
शां० । भ्रम० भ्रमरा भृङ्गाः । अद एतत् । मधु पुष्परसम् । कीदृशम् ? कादम्बं कदम्बम् | त्यजन्ति मुञ्चन्ति । तथा वर्धते वृद्धिं प्राप्नोति । कः असौ ? कादम्बमद्ः हंसहर्षः । तथा बहुलाः कृत्तिकाः निशाः च रात्रयः सद्योगं शोभनसंयोगम् इताः प्राप्ताः । कस्मात् इति इव हेतोः । वर्षाः प्रावृट् सद्यो झटिति एव अस्माभि गमिता नीता' इति इव अस्मात् हेतोः ॥१३॥
E
१. कुमुद +नव + ऋद्धि + तत+आपाः
२. शुष्का मही+इन+वर्धित+तापाः ।
३-३. क्षा० प्रतौ नास्ति ।
४. झा० "शुश्राव आकर्णयामास " अस्ति ।
५. क्षा० प्रतौ 'कदंबभ वं' अस्ति । ६. म० प्रतो नास्ति.
७. म० प्रतौ 'अस्माभिः आप्ति गं वस्ति । ८. म० प्रतौ नास्ति ।