________________
शिवभद्र काव्यम्
पु० । भ्रमराः षट्पदाः अदः तत् कादम्बं कदम्बपुष्पभवं मधु मकरन्द त्यजन्ति तुच्छत्वात् । कादम्बमदः कलहंसानां मदः च वर्धते । उत्प्रेक्षते । वर्षाः सद्यः सपदि गमिताः दैवेन अपनीताः इति हेतोः इव । बहुलाः निशाः तमिस्राः रात्रयः च सद्योगं नक्षत्र संगतिम् इताः ||१३||
प्राणसमाः स्वादयिता
यस्त्यजति जनः शुचं समास्वादयिता । तं खलु दिवस नाहं
क्षम इति मदनोऽयमभजदव संनाहम् ||१४||
शां० । प्राण० मदनः कामः । संनाहं कवचम् | अभजदिव गृहीतवानिव । कस्मात् हेतोः प्राणसमाः जीवितकल्पाः स्वाः स्वकीया दयिताः भार्याः यः जनः लोकः त्यजति मुञ्चति । कीदृशः सन् ? शुचं शोकं समास्वादयिता अनुभवता । तं जनं खलु निश्चयेन दिवसं दिनमभिव्याप्य न क्षमे न मर्पयामि इति हेतोः ॥ १४ ॥
१३
पु० । इति हेतोः मदनः कामः अय्यम् उत्कृष्टं सज्जत्वम् अभजत् इव श्रितवान् इव । किम् इति जनः लोकः प्राणतुल्याः स्वाः आत्मीयाः दयिताः कान्ताः संत्यजति । कीदृगः ? शुचं समास्वादयिता शोकमनुभविता । तं दिवसं प्रियशून्यं दिनं न खलु सहे क्षमे । समास्वादयिता इति तृन्, अतः शुचम् इति द्वितीया ॥ १४ ॥
व्यभ्रे खे दयमानः कुमुदानां प्रोषितांश्च खेदयमानः ।
धाक्षोन् माऽऽनन्दयिता शशीति मुमुचुः प्रियेषु मानं दयिताः || १५ ||
शां० । व्यध्रे० प्रियेषु भर्तृषु विषये दयिताः वल्लभाः इति ' कारणात् मानम् अहंकारं मुमुचुः मुक्तवत्यः । कस्मात् इव ? शशी चन्द्रः कीदृशः कुमुदानां कैरवाणाम् आनन्दयिता विकासकः तथा दयमानः वर्धयमानः उदयमानः वा खे आकाशे कीदृशे व्य विगतमेघे । तथा खेदयमानः कान् प्रोषितान् प्रवासितान् यद्वा तद्भार्याः धाक्षीत् मा भस्मसात् अकार्षीत् अस्मादिति हेतोः || १५ ||
१. म० 'जीवित तुल्याः ।
२. म० 'दिनाग्रमव्याप्य' अस्ति ।
३- ३. म० प्रतौ नास्ति । ४ - ४. क्षा० प्रतौ नास्ति ।