________________
शिवभद्रकृतम् पु० । दयिताः प्रिया प्रियेषु कान्तेषु मानम् ईर्ष्या कोपं मुमुचुः तत्यजुः । कुतः इति चेत् शशी मा धाक्षीत् इति धक्ष्यति इति आशङ्कया। कीदृक् सखी: मानन्दयिता असि वल्लभानां सुखयिता । व्यभ्रे निर्मेघे खे व्योम्नि स्थितः कमदानां दयमानः कैरवाणि अनुगृह्णन् तथा प्रोषितान् प्रवासिनः खेदयमानः क्लिश्नन् इति । कुमुदानां "अधीगर्थदयेषाम् [कर्मणि]" [पा०२. ३. ५२] इति पष्ठी । धाक्षीत इति दहतेः लुङ् । “न माङ्योगे" [पा. ६. ४. ७४] अडभावः । माङ् आशंसायाम् ॥१५॥
'आनन्दसमाजगतः ज्योत्स्नेति जनः पपौ मधु समाजगतः।
धैर्यविनामा नवतां प्रययुरनुशयाः प्रिया विना मानवताम् ॥१६॥ शां० । आन० जना लोकः समाजगतः गोष्ठीप्राप्तः । मधु मद्यं पपौ धयति स्म । तस्मात् आनन्दसमाव हर्षतुल्यात् जगतः भुवनस्य । ज्योत्स्ना चन्द्रकान्तिः इति हेतोः । तथा मानवतां साहंकाराणाम् । अनुशयाः पश्चात्तापाः नवता प्रययुः प्रगताः । कीदृशाः ! धैर्यविनामाः धीरतानाशकाः । कथं विना अन्तरेण । काः प्रियाः वल्लभाः ॥१६॥
पु० । जनः मधु मद्यं पपौ पीतवान् । कीदृशः ? समाजगतः गोष्ठीप्राप्तः । हेतुम् आह । ज्योत्स्ना चन्द्रिका जगतः सर्वस्य अपि आनन्दसमा सुखेन तुल्या इति । किश्व, मानवतां मानिना अनुशयाः पश्चात्तापाः नवतां नूतनत्वं प्रययुः प्राप्नुयुः । कीदृशाः ? धर्य विनमयन्ति न्यक् कुर्वन्ति धैर्यविनामाः धृतिनाशकाः इति अन्तर्भाविण्याद्विनमेः “कर्मण्यण्" [पा. ३. २. १] ॥१६॥
खमपि सतारं जयतां कुमुदैश्चेतोऽम्भसा सता रब्जयताम् । सरसां श्रियं विषहते दाशरथिन स्म मनसि मदनविषहते ॥१७॥
शां० । खमपि० दाशरथी रामो न विषहते स्म न सोढवान् । काम् ! श्रियं शोभाम् । केषाम् ! सरसां तडागानाम् । किं कुर्वताम् ? जयतां अभिभवताम् । किं तत् ? खमपि आकाशमपि । कीदृशम् ! सतारं तारकायुक्तम् । कैः ? कुमुदैः कैरवैः, शोभाधिक्यात् । तथा रब्जयतां हर्षयताम् । किं तत् ? चेतः मनः । केन अम्भसा जलेन, कीदृशेन ? सता शोभनेन । क्व सति न विषहते स्म ? मनसि चित्ते सति । कोशे ? मदनविषहते कामगरलदग्धे ॥१७॥
१. मानन्दसमाजगतः इति शॉ० सम्मतः पाठः ॥ २. म 'सानुवतो' । ३. म० धीर्यविनाशाः ।