________________
शिवभद्रकाव्यम् पु० । दाशरथी रामः सरसां शीतलानां श्रियं शोभा मनसि न विपहते स्म न सोढवान् । यतः मदनः एव विषं भ्रममूळदिकारित्वात् । तेन हतं मनः । कीदृशां सरसोम् ? कुमुदैः सतारं सनक्षत्रं खं व्योम जयतां तिरस्कुर्वतां तथा सता प्रसन्नेन अम्भसा चेतः रज्जयतां सरागं कुर्वताम् इति । विषहते इति स्मयोगात् अत्र अन्ते लट् 'पैरिनिविभ्यः" इति षत्वम् ।
स स्थिरकान्तारागश्चित्तप्रतिकूलफुल्लकान्तारागः । शरदं चतुरस्रां तां विलोक्य वाचं जगाद चतुरः सान्ताम् ॥१८॥
शां०। स स्थि० स रामः तां पूर्ववर्णितां शरदं विलोक्य दृष्ट्वा वाचं वचनं जगाद उवाच । कीदृशीम् ? श्रान्तां खिन्नां शरदम् । कीदृशम् । चतुरस्रां संपूर्णाम् । कीदृशः रामः ? स्थिरकान्तारागः अचलसीतानुगगः । तथा चित्तप्रतिकूलफुल्लकान्तारागः चित्तस्य मनसः प्रतिकूलाः अप्रियाः फुल्लाः विकसिताः कान्तारागाः अरण्यवृक्षाः यस्य स तथोक्तः । तथा चतुरः दक्षः ॥१८॥
पु० । चनुर: निपुणः सः रामः श्रान्तां खिन्नां वाणी जगाद । मनसः खिन्नत्वात् वाग् अपि खिन्ना इति उपचर्यते । विशेषणार्थं वाणी इति पदम् । किं कृत्वा ! चतुरस्रा रम्यां तां प्रकृतां शरदं विलोक्य । कोदशः ? स्थिरः दृढः कान्तारागः सीताविषयः रागः यस्य तथा चित्तप्रतिकूला पुष्पिताः कान्तारेषु महावनेषु वृक्षाः । यस्य विरह चित्ते रम्यता अपि प्रतिकूलोभवति इति ॥१८॥
योगं हारसितानां घटा धनानां जहाति हा! रसितानाम् ।
दूरे या मम चेष्टा तनुरियमपि संध्रियेत याममचेष्टा ॥१९॥
शां० । योगं० हारसितानां मुक्ताकलापधवलानाम् । धनानां मेघानाम् । घटा पङ्क्तिः । योगं सम्बन्धं जहाति त्यजति । केषाम् ? रसितानां गर्जितानाम् । हा खेदे वर्तते । का असौ ! या मम इष्टा वल्लभा सीता अतः किं संधियेत संधारयितुं शकयेत । किं ? यामं प्रहरम् अपि अभिव्याप्य । का असौ ! तनुः शरीरम् । कीदृशी ? अचेष्टा निश्चेष्टपरा अचेतना वा तथा इयं प्रत्यक्षा न एवं सन्ध्रियेत इत्यर्थः ॥१९॥
१. परिनिविभ्यः सेवसित मयसिवुसहसुटस्तुस्वञ्जाम् (पा. ८. ३. ७०)। २-२. म० मास्ति । ३. म० 'विदग्धः' । ४. क्षा० "त्यजति त्यजति' भस्ति। ५-५. क्षा० प्रतो नास्ति । इ. क्षा० "प्रत्यक्षतयैव" अस्ति ।