________________
शिषभद्रकृतम् पु० । किं जगाद ? इति आह । हारसितानां मुक्ताफलशुभ्राणां घनानां घटा पतिः रसितानां योग गर्जितसंयोगं जहाति । हा इति विषादे । मम या इशा प्रिया सा च दूरे यामम् अपि प्रहरमात्रम् अपि न ध्रियेत न जीवेत् यतः कृशा अचेष्टा चेष्टितुम् अपि अक्षमा इति । 'धृङ् अनव स्थाने" संभावने लिङ ॥१९॥
उत्कण्ठमदभ्रमरं जनयति कुमुदं विजृम्भितमदभ्रमरम् ।
मत्ताः शरदा हंसा विपहेत कथं नु मदनशरदाह सा ॥२०॥ शां० । उत्कण्ठ० सा सीता । कथं नु वितर्के । विषहेत शक्नुयात्, नैव सहते इत्यर्थः । कम् ? मदनशरदाहं कामबाणपीडाम् । यतः कुमुदं कैरवं जनयति करोति। कम् ? उत्कण्ठम् औत्सुक्यम् ? कीदृशम् ? अदभ्रं बृहत्तरम् । कीदृशम् ? कुमुद 'विजृम्भितमदभ्रमरम्' विजृम्भितमदाः प्रसृतहर्षा मदोत्कटा वा भ्रमराः भृङ्गाः यस्मिन् तद् तथोक्तम् । तथा मत्ताः मदोत्कटाः । के ? हंसाश्चक्राङ्गाः । कया ! शरदा शरत्कालेन । शोकविह्वलः तु रामः लक्ष्मणाग्रे इदै प्रलपति स्म ॥२०॥
पु० । कुमुदं कर्तृ अदभ्रं उत्कण्ठं महतीं उत्कण्ठाम् अरं शीघं जनयति । कीदृक् ? विज़म्भितमदाः प्रवृद्धगर्वा भ्रमराः षट्पदाः यत्र । किं च, हंसा: शरदा हेतुना मत्ताः अतः सा सीता मदनशरदाहं कामवाणकृतं तापं कथं नु विषदेत क्षमेत इति 'उत्कण्ठ' शब्दो घञ्प्रत्ययान्तः पुंल्लिङ्गः । नु शब्द: वितर्के ॥२०॥
मूलं ही नाशानां बन्धूकं कामिनां हि हीनाशानाम् । अधरं कान्त्या जयति प्राणान् विरहे स्त्रियं न कां त्याजयति ॥२१॥
शां० । मूलम् • हि व्यक्तम् । बन्धुकं बन्धुजीवकम् । कान्त्या दील्या । अधरम् ओष्ठम् । जयति अभिभवति अनुकरोति वा । कीदृशम् ? मूलं कारणम् । केषाम् ! नाशानाम् । केषाम् ? कामिनां भोगिनाम् । कीदृशाम् । हीनाशानां भ्रष्टकान्ताप्राप्तिनाम् । ही खेदे । तथा कां स्त्रियं महिला विरहे वियोगे प्राणान् जीवितं न त्याजयति मोचर्यात सर्वमपि मोचयति इत्यर्थ ॥२१॥
पु० । किश्च बन्धूकं बन्धुपुष्पं कामिनां नाशानां कामुकमरणानां मूलं निदानम् । कीदृशां कामिनाम् ? नष्टा हीना प्रियासंगत्यभिलाषा येषाम् । ही इति खेदे । कथमिति यतः कान्त्या शोभया अधरं जयति अनुकरोति । विरहे कां स्त्रिय प्राणान् न त्याजयति मोचयति अतः प्रियाधरस्मारकत्वात् प्रियाप्राणत्याजकत्वात्
१-१ क्षा० प्रतो नास्ति । २-२ क्षा० प्रतो नास्ति ।