________________
शिवभद्रकाव्यम्
च बन्धूकम् एव सर्वप्राणिनां सर्वानर्थबीजम् इति कर्मत्वं कथमपि समर्थनीयम् त्याजितैः फलम् उत्खातैः इति ' अत्र ॥ २१ ॥
१७
कुसुमितबाणासनया शरदा स्मरगर्वकृष्टबाणासनया । स्थितशिखिकेकास्वनया न नियुज्यन्ते प्रियासु के कास्वनया ||२२||
शां० ॥ कुसु० के ? नराः ? कासु ? प्रियासु वल्लभासु । न नियुज्यन्ते व्यापार्यन्ते अपि तु सर्व एव सर्वासु नियुज्यन्ते इत्यर्थः । कया ? अनया प्रत्यक्षतया । शरदा शरत्कालेन । कीदृश्या ! कुसुमितबाणासनया पुष्पितबीजवृक्षया तथा स्मरगर्वकृष्टवाणासनया स्मरेण कामेन गर्वेण दर्पेण कृष्टम् अञ्चितं बाणासनं धनुर्यस्यां सा तथोक्ता तया । तथा स्थितशिखिकेकास्वनया उपरतमयूरशब्दया ||
पु०॥ अनया शरदा के पुरुषाः कासु प्रियासु न नियुज्यन्ते न प्रवर्तन्ते सापराधा अपि गाढमाना हि अपि प्रवर्तन्ते इत्यर्थः । कीदृश्या ? कुसुमिताः पुष्पिताः बाणाः असनाः च यस्यां तथा स्मरेण गर्वात्कृष्टम् अहंकारेण आकृष्टं बाणासनं धनुः यस्यां तथा स्थितः शिखिकेकास्वनः मयूरकूजितं यत्र [ तादृश्या ] । शरदन्ते अपि केकास्वनानुवृत्तिः अस्ति इति विशेषणत्रयं हेतुगर्भम् ॥ २२ ॥
दैन्यं भूरि सद्भिः सप्तपलाशैः करोति भूरिह सद्भिः । शैलकुचाऽपङ्का मे वधाय कर्षति शठे कुचाप कामे ||२३||
1
शां०॥ दैन्य० भूः पृथ्वी । इह शरदि मे मम दैन्यं दीनतां करोति विदधाति । कीदृशम् ? भूरि प्रचुरम् | कैः कृत्वा : सप्तपलाशैः सप्तच्छदैः । कीदृशैः इसद्भिः विकसद्भिः तथा सद्भिः शोभनैः । कीदृशी भूः ? शैलकुचा गिरिस्तनी, तथा पङ्का अकर्दमा । क सति । कामे मदने । किं कुर्वति कर्षति । शठे दुरात्मनि । कुचापं कुत्सितधनुः । किमर्थम् ! वधाय घाताये । कस्य ? मे मम | २३ ||
|
पु०॥ [भूः] पृथ्वी इह सद्भिः अत्र स्थितैः हसद्भिः पुष्यद्भिः सप्त पलाशैः सप्तपर्णायैः वृक्षैः (मे) मां भूरि बहु दैन्यं करोति । कीदृशी भूः ? शैलकुचा पर्वतस्तनी तथा अपक्का निष्कर्दमा । क्व सति शठे अनिष्टकारिणि कामे कुचापं कुत्सितं धनुः मम वधाय कर्षति ||२३||
दृष्टिविष दीप्राणां नलिनानां श्रीः कथं विषादी प्राणान् ।
farai fह सरोगतया कमलिन्या क्षत इवामलसरोगतया ॥ २४ ॥
१. इति अत्र - इतिवाक्यवद् अत्र कर्मत्वं समर्थनीयम् इत्येवम् भाशयः प्रतिभाति । २ क्षा० 'विघाताय ' । ३ सरोगतया रोगसहिततथा इति एकं पदम् । ४ सरः गतया - सरोगतया इति पदद्वयम् ।
३