________________
शिवभद्रकृतम् शां०॥ दृष्टि० यतो दृष्टिविषा दृष्टिः दर्शनमेव विषं यस्याः सा दृष्टिविषा मारणात्मकत्वात् । का ? श्रीः शोभा । केषाम् ? कमलानां पद्मानाम् । कीदृशानाम् ! दीपाणां दीपनस्वभावानाम्' । अतः कथं विषादी विषण्णः सन् प्राणान् असून् विभ्याम् धारयेयम् अहम् । हि स्फुटम् । किम् इव अहम् । क्षतः इव हतः इव । कया सरोगतया दुःखिततया दर्शने दुःखोत्पत्तेः, तथा कमलिन्या च पग्रिन्या [च] क्षत इव । किं विशिष्टया ? अमलसरोगतया निर्मलतडागोत्पन्नया ॥२४॥
पु०॥ हि यस्मात् । दीप्राणां भ्राजिष्णूनां कमलानां पद्मानां श्री: समृद्धिः दृष्टिविषा दर्शनमात्रेण । या व्याली विषं संक्रमयति सा दृष्टिविषा उच्यते । अतः तदारोपः क्रियते । अतः अमलसरोगतया निर्मलसरःप्राप्तया कमलिन्या क्षतः इव हत इव महं सरोगतया सज्वरतया विषादी शोकाक्रान्तः । कथं प्राणान् विभृयाम् धारयेयम् ! दीप्राणाम् इति "नमिकम्पि" (पा. ३. २. १६७) इत्यादिना तान्छील्याधणे 'र' प्रत्ययः ॥२४॥
त्यजति न दीनान्तोऽयं क्रौञ्चगणो निर्मलं नदीनां तोयम् । विरुतैरवशं सीते ! कुर्वन् मां काञ्चिदामरवशंसी ते ॥२५।।
शांना त्य० हे सीते ! मैथिलि !' क्रौञ्चगणः सारससंघातः अयम् प्रत्यक्षः । न त्यति न मुञ्चति । कि तत् ? नदीनां सरितां तोयं जलम् । कीदृशम् ! निर्मलं विमलम् । कीदृशः अयम् १ दीनान्तः दैन्ययुक्तः विनाशः । किं कुर्वन् ! कुर्वन् विदधत् माम् कीदृशं ! अवशं पराधीनम् । किंभूतः ? काञ्चिदामरवशंसी रसनागुणशब्दसूचकः" । कस्याः ते तव । कैः कृत्वा ! विरुतैः शब्दितैः ॥२५॥
___ अयं क्रौठचाख्यः पक्षिगणः निर्मलं प्रसन्नं नदीनां तोयं न त्यजति । कोदशः ! दीनानां विरहिणाम् अन्तः मृत्युभूतः । किं कुर्वन् ? विरुतैर्नादैः माम् भयो निश्चेष्टं कुर्वन् । हे सीते ! यतः ते काञ्चीदाम्नः काञ्चीगुणस्य रवशंसी सिमितसूचकः सदृशत्वेन स्मृतिहेतुः इति अर्थः । चित्तानीतत्वेन प्रत्यक्षसीतायाः संबोधनम् ॥२५॥ १. म० दीप्तस्वभावानाम् ।
६. म० 'क्रौञ्चपक्षिविशेषाः' । २. म० नास्ति ।
७. म० "त्यजतिपरिह रति" । ३. क्षा० 'सदुःख तया ।
८. म० "अकलुषं" । ४-४. क्षा० नास्ति।
९. क्षा० 'दीनताविमाशकः' । ५. म. हे सीते मैथिलि नास्ति ।
१०. क्षा० "रसनाशब्दकथका"।