________________
शिवभद्रकाव्यम् पश्य धनस्तनि तेन क्षपितं धृतिहारिणा घनस्तनितेन । नयति शुचं द्रोही मां वहन् त्वदास्यरुचम् आशु चन्द्रो ही माम् ॥२६॥
शां०॥ पश्य० । हे घनस्तनि ! नीरन्ध्रकुचे ! सीते ! मां चन्द्रः हिमांशुः । शुचं शोकम् । आशु शीध्रम् । नयति प्रापयति । ही खेदे। पश्य विलोकय । कीदृशः ? द्रोही घातकः । किं कुर्वन् ? वहन् बिभ्रत् । काम् ? त्वदास्यरुचं भवत्याः मुखशोभाम् । कीदृशं माम् क्षपितं पीडितं कृशीकृतम् । तेन घनस्तनितेन मेघशब्दितेन । किंभूतेन ? धृतिहारिणा असंतोषमुखेन ॥२६॥
पु०॥ धनः कठिनः निरन्तरः स्तनः यस्याः तस्याः संबोधनम् । हे घनस्तनि सीते ! पश्य । वर्षासु अनुभूतेन मेघध्वनिना क्षपितं क्षपणं ग्लपनं कृतं । कीदृशा ? धृतिहारिणा धैर्यनाशकेन । इदानीं द्रोही जिघांसुः च माम् आशु शुचं शोकं नयति । किं कुर्वन् ? इमां त्वदास्यरुचं त्वन्मुखकान्ति वहन् इति शतृप्रत्ययः । ही शब्दः खेदे । क्षपितम् इति भावे क्तः ॥२६॥
शोकसमुद्रे कान्ते ! पतितस्य ममेह रतिसमुद्रकान्ते । शान्तिः का मिश्रितया स्मरेण शरदा सकान्तकामिश्रितया ॥२७॥
शां०॥ शोकस० । हे कान्ते ! सीते । मे मम शान्तिः शमः इह अस्मिन् काले । का ? अपि तु न का अपि । कीदृशस्य ? पतितस्य आगतस्य । क ! शोकसमुद्रे शुगर्णवे शोकार्णवे । कीदृशे ! रतिसमुद्रेकान्ते प्रीत्याधिक(कय)नाशके । कया कृत्वा ! पतितस्य शरदा शरत्कालेन । कीदृश्या ? मिश्रितया संयुक्तया । केन ? स्मरेण कामेन । तथा सकान्तकामिश्रितया प्रियासहितभोगिजनाश्रितया ॥२७
पु० ॥ हे कान्ते ! इह शोकसमुद्रे पतितस्य मम शरदा का शान्तिः स्वास्थ्यम् ? न का अपि इति । कीदृशे शोकसमुद्रे ? रतिसमुद्रेकस्य प्रीतिप्राचुर्यस्य अन्ते नाशभूते । कीदृशा शरदा ? स्मरेण मिश्रितया मिलितया। तथा सकान्तः प्रियासहितैः कामिभिः श्रितया सेवितया ॥२७॥
शोभामाश्वसनानां विदर्य किं मां स्मराहमाश्वसनानाम् । शिखिना सम दहसि तया रहितं चित्तानुकूलसमदहसितया ॥२८॥ १. क्षा० 'भवती' । २. म० मास्ति । ३. क्षा० 'मेघगजितेन' १. क्षा 'कीदशेन' ।