________________
शिवभद्रकृतम्
1
शा०॥ शोभा ० | हे स्मर ! काम ! किम् किमर्थम् मां दहसि ? संतापयसि ? कीदृश ? सम ! तुल्य ! केन ? शिखिना अग्निना । किं कृत्वा : विदर्य प्रकाश्य । काम ? शोभां श्रियम् । कथम् ? आशु शीघ्रम् । केषाम् ? अशनानां बीजक - तरूणाम् । कीदृशम् ? अर्हं यॊग्यम् । केषाम् ? आश्वसनानाम् आश्वासनानाम्' । तथा तया सीतया । रहितं हीनम्' । कीदृश्या ! चित्तानुकूलसमदहसितया चित्तानुकूलं मनोरञ्जकं समदं सहर्षं हसितं हासो यस्याः सा तया ॥२८॥
२०
पु० ।। इदानीं स्कन्धकद्वयेन स्मरमुपालभते । हे स्मर ! शिखिना सम ! अग्नितुल्य । किमिति माम् आशु दहसि तपसि । कि कृत्वा ? असनानां सर्जकपुष्पाणां शोभां प्र (वि)दर्य प्रकटीकृत्य । कीदृशं माम् ? चित्तानुकूलं हृदयं समदं हसितं च यस्या: तया सीतया च रहितं अतः च आश्वसनानां सान्त्वनानाम् अहं योग्यम् इति ॥२८॥
यच्छन्तं ज्यानिगदं न सहेत तव मत्तषट्पदज्यानिगदम् । किमामुत्कं पयसि स्थित्वा कमलेषुभिस्त्वमुत्कम्पयसि ॥२९॥
शां०॥ यच्छन्० । न सहे अहं न मर्षयामि । कम् ? मत्तषट्पदज्यानिगदम् क्षीबभ्रमरमौर्बीशब्दम्" | कस्य ! तव ते । किं कुर्वन्तम् ? यच्छन्तं ददतम् । कम् ? ज्यानिगदं हानिरोगम् । किं किमर्थम् ? | आमुत्कं उत्कण्ठितम् । हे स्मर ! उत्कम्पयस त्रासयसि । कैः कमलेषुभिः पद्मबाणैः । किं कृत्वा ? स्थित्वा । क ? पयसि जले ।
रामः विरहातुरः लक्ष्मणस्य अग्रे एवं उक्तवान् । साम्प्रतं लक्ष्मणेन सोऽभिधीयते स्म ||२९||
पु० || हे स्मर | तव ते मत्ताः ये षट्पदाः एव ज्या मौर्वी तस्याः निगदं ध्वनि न सहे न मृष्याभि । कीदृशम् ? ज्यानि: जीर्णना (ता) गदः ज्वरश्च समाहारेकरवस्तदुभयं यच्छन्तं ददतम् । किं च त्वं पयसि वारिणि स्थित्वा कमलरूपैः इषुभिः उत्कण्ठं उन्मनसं मां किमुत्कम्पयसि । पुष्पवाणः हि स्मरः । यच्छन्तम् इति "दाण दाने" इत्यस्य " पात्रामास्थाम्नादाण " [पा. ७.३,७८] इत्यादिना छादेशः ॥२९॥
१. क्षा० 'आश्वासानां ।
२. म० दीनम् ।
३. अत्र सहेत इत्यस्य तकारो न कमपि अर्थ भजति अतः तकारः अनर्थको बोध्यः ।
४. म० " मतं क्षी भ्रमरमौर्वीशब्दम् ।"
५. क्षा० "लक्ष्मणे रसो"