________________
शिवभद्रकाव्यम्
अथ रामः स्मरतान्तेः कनीयसा गद्यते द्विषां स्म रतान्तः । वाक्यं समदं तेन प्रविकीर्ण शशाङ्क किरणसमदन्तेन ||३०||
H
3
शां० ॥ अथ राम • | अथ अनन्तरम् । केन ? कनीयसा लघुतरेण लक्ष्मणेने रामः ज्येभ्राता गद्यते स्म उक्तः । कीदृशः रामः स्मरतान्तः कामपीडितः । तथा द्विषां शत्रूणां रतान्तः सुरतनाशकः । किं तत् गद्यते स्म ? वाक्यं वचनम् । कीदृशम् ? समदं सहर्षम् । कीदृशेन तेन ? प्रविकीर्णशशाङ्क किरणसमदन्तेन विक्षिप्त चन्द्रांशुतुल्यदर्शनेन ||३०||
पु० ॥ अथ अनन्तरं रामः तेन कनीयसा लक्ष्मणेन वाक्यं समदं सर्व न्यगत अभिहितः । कीदृशः [ स्मरतान्तः ] स्मरेण तान्तः श्रान्तः । कीदृशेन ? अन्त मनसि आगः अपराधं स्मरता रेविणसुग्रीवाद्यागः इति अर्थात् लभ्यते । तथा प्रविकीर्णाः प्रसृताः ये शशिनः विरणाः तैः समाः दन्ताः यस्य इति । "ब्रुवि पश्यति (पृच्छति )" इत्यत्र अर्थपरत्वात गदेः अपि द्विकर्मता ॥३०॥
शाम्यत्वश्रु तवेदं दैन्यं ह्यभिभवति मूढमश्रुतवेदम् । शोकातिः कातरतां परापमानार्णवं विसृज कातरताम् ||३१||
२१
शां०॥ शाम्य० । शाम्यतु उपशमं गच्छतु । कि तत ! अश्रु नेत्रजलम् | कस्य ? ते तव । इदं प्रत्यक्षम् । हि यस्मात् । मूढं "मन्दं" जनम् कीदृशम् अश्रुतवेदं अनाकर्णितसिद्धान्तम् । अभिभवति जयति । किं तत् ? दैन्यं विमनस्कता । का च शोकातिः शुक्पीडा ? नैव । केषाम् ? तरतां प्लवमानानाम् । कम ? परापमानार्णवं शत्रुजनितम् अवज्ञासमुद्रम् अतः विसृज मुश्च कातरतां विह्वलताम् ||३१||
पु० ॥ किं निजगाद इति आह । भोभ्रातः तव इदम् अश्रु नेत्रजलं शाम्यतु शान्तम् अस्तु । हि यतः दैन्यं दीनता अश्रुतवेदं भशास्त्रज्ञ अभिभवति न तु त्वां श्रुतपारगम् । कातरतां भीरुत्वं विसृज परापमानार्णवं शत्रुकृताभिभवसागरं तरतां लङ्घयतां भवादृशानां का शोकार्त्तिः ? न का अपि । शोके
१. स्मरतान्तः अथवा स्म रतान्तः ।
२. म० 'सौमित्रिणा' 1
३. म० प्रतौ नास्ति ।
४. क्षा० ' यातु' ५-५. म० प्रतौ नास्ति ।