________________
२२
शिवभद्रकृतम् अपि इति । श्रुतं शास्त्रं . वेत्ति इति श्रुतवेदः । "कर्मणि अण (पा. ३. २. १) इति अण् ॥ ३१॥
हरणं सहते नार्या' द्विषता को मृग्यतां हि सह तेनाऽऽर्या" । कुरु वुद्धिं सत्वरतां द्रष्टुं वैवस्वतं रिपुः स त्वरताम् ॥३२॥
शां०॥ हर० । हि यस्मात् । कः सहते क्षमते । किं तत् । हरणं अपहारम् । केन ! द्विषता शत्रुणा । कस्याः ? नार्याः स्त्रियः तेन कारणेन तेन अरिणा सह सार्धम् । आर्या सती सीताऽथवा (अर्या) स्वामिनी । मृग्यतां गवेष्यताम् । तथा कुरु विधेहि । काम् ? बुद्धिं मतिम् । कीदृशीम् ? सत्वरतां उपष्टम्भसत्काम् । तथा स रावणः रिपुः अरिः तव त्वरताम् उत्सुकः भवतु । किं. कर्तुम् ! द्रष्टुं अवलोकयितुम् । किं चैवस्वतं यमम् । ३२॥
पु०॥ द्विषता शत्रुणा नार्याः स्त्रियाः हरणं कः सहते क्षमते । हि अतः तेन हा सह आर्या निष्पापा सीता मृग्यताम् अन्विष्यताम् । उभौ अपि मन्विष्येताम् इति अर्थः । यद् वा तेन हि तेन हेतुना आर्या सीता सा सर्वे। मिलित्वा मृग्यताम् इति । आर्या इति उक्तम् परिग्राह्यत्वार्थम् । हे राम बुद्धि सत्वरतां अध्यवसायपरां कुरु । स रिपुः वैवस्वतं यमं द्रष्टुं त्वरतां संभ्राम्यतु । त्वयोगानन्तरमेव शत्रुः म्रियते इति अर्थः ॥ ३२ ॥
सिद्धिं भवदाशानां नैर्मल्यं कथयतीव भवदाशानाम् ।
स्फुटविकसत्कमलाभं जलं च भूयोऽभिमन्यसे कमलाभम् ॥३३॥
शां०॥ सिद्धिं । आशानां दिशानाम् भवत् जायमानम् नैमल्यं निर्मलत्वम् । कथयतीव आख्यातीव । काम् ? सिद्धिं कार्यनिष्पत्तिम् । कासाम् ? भवदाशानाम् त्वन्मनोरथानाम् । तथा जलं वारि च कथयति इव । कीदृशम् ? स्फुटविकन्न सत्कमलाभं स्फुटा व्यक्ता विकसत्कमलानां पुष्प्यत्पद्मानां आभा कान्तिः यत्र साई तथोक्तम् । अतः भूयः पुनः बाहुल्येन वा । कमलाभं परम् अभिमन्यसे जानासि स्वम् ! सर्व एव लाभ इत्यर्थः ॥३३॥
पु०॥ समयः अपि अयं उद्योगयोग्यः इत्यर्थः । आशानां दिशा नैर्मल्यं वैमया भवत् जायमानं भवदाशानां त्वन्मनोरथानां सिद्धिं कथयति इव । कीदृशम् ? स्फुटा
१. बहते नार्याः । २. मह तेन आर्या अथवा अर्या । ३. भवत् भाशानाम् अथवा भवदाशानाम् १. क्षा प्रतौ "मल्यम्" पाठः स्वीकृतः ५. कमलाभम् अथषा का भलाभम् ।