________________
शिवभद्रकाव्यम्
स्पष्टा विकसतां कमलानां पद्मानां आभा कान्तिः यत्र तत् तथा कम अलाभ असिद्धिं भूयः पुनरपि वक्तुम् अभिमन्यते' भवान् इति शेषः । शरदा दिशां नैर्मल्ये जाते कः अपि अलाभः वक्तुं न शक्यते इति अर्थः ॥३३॥
इति विक्रमवदनेन क्रमेण गदताऽभ्रमुक्तशशिवदनेन ।
ज्येष्ठः शुक्क्लेशमितः प्रमृश्य नेत्रे नितान्तशुक्क्ले शमितः ॥३४॥ शां०॥ इति । अनेन लक्ष्मणेन ज्येष्ठः रामः शमितः उपशमं नीतः । किं कृत्वा ! प्रमृज्य संस्पृश्य । के ? नेत्रे नयने । कीदृशे ! नितान्तशुक्कले अतिशुभ्रे । कीदृशः ज्येष्ठः ? शुक्क्लेशं शुवा शोकेन क्लेशः दुःख शुक्लेशः । तं इतः प्राप्तः । किं कुर्वता ! अनेन गदता ब्रुवता ! केन ? क्रमेण आनुपूर्व्या । कथम् ? विक्रमवत् सावष्टम्भम् । तथा अभ्रमुक्तश शिवदनेन मेघरहितचन्द्रवदनेन किं गदितं इति पूर्वोक्तम् ॥३४॥
पु०॥ इति विक्रमवत् विक्रमयुक्त वदता अनेन लक्ष्मणेन ज्येष्ठः रामः शमितः शान्तिं प्रापितः । किं कृत्वा ! नेत्रे प्रमृज्य बाष्पक्लिन्ने नेत्रे अपमृज्य इति अर्थः । कीदृशेन ? अभ्रमुक्तशशिवदनेन मेघानावृतचन्द्रतुल्यवक्त्रेण । कीदृशः ज्येष्ठः ? शुक्क्लेशं शोकजनितं दुःखम् इतः प्राप्तः । कीदृशेः नेत्रो ? नितान्तशुक्कले धवले ॥३४॥
गच्छत्यवधावन्तं समीक्षमाणः स्वमर्थमवधावन्तम् । निकृतः सख्या तनयः कौशल्याया जगाद स ख्यातनयः ॥३५॥
शां०॥ गच्छ० । स रामः कौशल्यायाः तनयः पुत्रः" जगाद उक्तवान् । कीदृशः ? निकृतः विप्रलब्धः। केन ! सख्या मित्रोण सुग्रीवेण । तथा ख्यातनयः प्रसिद्धनीतिः । *किं कुर्वाणः समीक्षमाणः अवलोकयत् । कम् । स्वमर्थं स्वकीय
१. टीकाकारः मूले 'अभिमन्यते' इति पाठं स्वीकरोति । २. विक्रमवद् अनेन । ३. शुषलेशम् इतः । ४. शु[क्क्ले शमितः ५-५. म. नास्ति । ६. म० 'विकृतः ।