________________
शिवभद्रकृतम् प्रयोजनं कीदृशं अवधावन्तम् अपगच्छन्तम् परियातं वा । क्क सति ? अवधौ *मर्यादायां गच्छति सति । कम् ? अन्तम् अवसानम् ॥३५॥
इत्थं लक्ष्मणेन शमितः । कौशल्यायाः तनयः रामः जगाद बभाषे । कीदृशम् ? स्वम् अर्थ आत्मीयं प्रयोजनम् अवधावन्तं अपगच्छन्तं नश्यन्तम् । समीक्षमाणः पर्यालोचयन् । क सति ! अवधौ सुग्रीवपरिभाषितमर्यादायाम् । अन्त समाप्ति गच्छति सति । सुग्रीवेण वर्षानन्तरम् एव आगम्यते इति हि परिभाषितम् । अतः एव सख्या सुग्रीवेण निकृतः विप्रकृतः । तथा ख्यातः प्रसिद्ध नयः नीतिः अस्य इति । युग्मकम् ॥३५।।
कुटजैः साकमलास्या' दीनाः शिखिनो मया च सा कमलास्या । रमते सम्प्रनि पत्या तारा केवलमिहर्तुसंप्रतिपत्त्या ॥३६॥ शां०॥ कुट० । इह अस्मिन् काले । दीनाः गतहर्षाः । के ? शिखिनः मयूराः । कीदृशाः अलास्याः नर्तनरहिताः कैः सह ? कुटजैः साकम् । तथा च मया च सह सा सीता । कीदृशी? कमलास्या पद्ममुखी दीना वर्तते इति । वचन[वि]परिणामेन सम्बन्धः । केवलं परम् । संप्रति अधुना । पत्या भर्ना सह । तारा सुग्रीवभार्या रमते क्रीडति नान्या रमते । कया कृत्वा ? ऋतुसंप्रतिपत्त्या ऋतोः प्राप्त्या अविपरीतप्रवृत्या वा ॥३६॥
पु०॥ किं जगाद इति आह । शिखिनः मयूराः कुटजैः साकं दीनाः शोच्याः जाताः यतः अलास्याः लीलानृत्यशून्याः । कमलास्या पनमुखी सीता च मया सह दीना। सम्प्रति इदानीम् तारा केवलं सुग्रीवजाया एव पत्या सुग्रीवेण सह ऋतुसंप्रतिपत्त्या शरत्संमत्या रमते क्रीडति इति ॥३६।।
दुष्करमधुना मत्तः श्रियमधिगम्योपभोगमधुना मत्तः । रोगमिमं श्वासमयं नावैति गतं च वानरश्वा समयम् ॥३७॥
शां०॥ दुष्क० वानरश्वा प्लवगकुक्कुरो नावैति नावगच्छति । किम् ? रोगमिमं दुष्करमिमं उपभोगलक्षणम् कथंभूतम् ? श्वासमयं श्वासहेतुकम् । तथा दुष्कर
*-* म. नास्ति । १. साकम् अलास्या अथवा सा कमलास्या २. चित्रकाव्यत्वेन विद्यमानोऽपि विसों न गण्यते । ३. 'दीमाः' एवं शिखिनो इत्यस्य विशेषणम् अतः दीना इति बहुवचनम् । यदाच
दीना इत्येव सीताविशेषण क्रियते तदा एकवचनम् वचनविपरिणामेन सम्बन्धः । १. म. 'विपरीतवत्या' । ५. क्षा० प्रतो नास्ति ।